________________
२६६ तत्वार्थाधिगमसूत्रम्
[ अध्यायः ३ योःषविधा इत्यादि । क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाभेदेन,तत्र क्षेत्रार्या इत्यादि सुज्ञानम् । जात्यार्या इक्ष्वाकव इत्यादि । सर्व एते जातिभेदाः केनचिनिमित्तान्तरेणाध्यवसेयाः । कुलायों इत्यादि । अत्रापि निमित्तभेदेन भिद्यन्ते । अपरे परिभाषन्ते-पित्रन्वयो जातिः, मात्रन्वयः कुलम् । कर्मायो इत्यादि । अनाचार्य किल कर्म तत्रार्याः कार्याः शिल्पा- इत्यादि । आचार्योपदेशात् शिक्षितं शिल्पं तन्तुवायादि तत्रार्याः शिल्पार्याः । भाषार्या नामेत्यादि । शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृतार्धमागधिकादिकाच, तत्र शिष्टभाषानियता अकारादयो वर्णा विशिष्टेन पौर्वापर्येण सनिवेशिता यस्य शब्दप्रधानसंव्यवहारस्यासौ शिष्टभाषानियतवर्णस्तं लोकरूढस्पष्टशब्दं लोकरूढः-अत्यन्तप्रसिद्धःसंव्यवहारेषु स्पष्टःस्कुटो नाव्यक्तो बालभाषावत् लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे तमेवंविधम् , पञ्चविधानामप्यार्याणां क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारमागच्छ याहीदं कुरु मैवं कार्षीरित्येवमादिकं भाषन्ते ये ते भाषार्याः ॥
भा०-अतो विपरीता म्लिशः॥
टी०-उक्तक्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाव्यतिरिक्तक्षेत्रादिषट्कभाजः सर्वे म्लिशो भवन्ति, शक-यवन-किरात-काम्बोज-बाहीकादयोऽनेकभेदाः, तथाऽन्तरद्वीपकाः किल म्लेच्छा एव, क्षेत्रादिषट्कविपर्यासात् ।। अन्तरद्वीपकाः
. भा०-तद्यथा-हिमवतः प्राक् पश्चाच चतसृषु विदिक्षु त्रीणि
__ योजनशतानि लवणसमुद्रमवगाह्य चतसृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा भवन्ति, त्रियोजनशतविष्कम्भायामाः। तद्यथा-एकोरुकाणां आभासिकानां लागलिनां विषाणिनामिति १। चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भाः। एवमेव हयकर्णानां गजकर्णानांगोकर्णानां शकु. लीकर्णानामिति २। पश्च योजनशतान्यवगाह्य पञ्चयोजनशतायामविष्कम्भा एवान्तरद्वीपाः। तद्यथा-आदर्श-मेष-हय-गजमुखनामानः३। षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा एवान्तरद्वीपाः। तद्यथा-अश्व-हस्ति-सिंह-व्याघ्रमुखनामानः४। सर्स योजनशतान्यवगाह्य सप्तयोजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथाअश्वकर्ण-सिंहकर्ण-हस्तिकर्ण-कर्णप्रावरणनामान:५। अष्टौ योजनशतान्यवगाह्याष्टयोजनशतायामविष्कम्भा एवान्तरबीपाः । तद्यथा-उल्कामुख-विद्युजिह्व-मेषमुख-विद्युदन्तनामानः ६ नव योजनशतान्यवगाह्य नवयोजनशतायामविष्कम्भा एवान्तरदीपा भवन्ति । तद्यथा-घेनदन्त-गूढदन्त-श्रेष्ठदन्त-शुद्धदन्तनामानः ७।
१'एवान्तरद्वीपाः, तद्यथा' इति घ-पाठः । २ गजमुखाना व्याघ्रमुखानामादर्शमुखानां गोमुखानामिति' इति घ. पाठः । ३ 'अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति' इति घ-पाठः । ४ । सप्त शतान्यवगाहा' इति क-पाठः । ५ घनदन्त-श्रेष्ठदन्त' इति क-पाठः।'विशिष्ठदन्त' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org