________________
तत्त्वार्थाधिगमसूत्रम्
विदेहक्षेत्रेषुरर्धहीनो नीलेषुर्भवति, सोऽर्धहीनो रम्यकेषुरित्येवं यावदैरावतक्षेत्रमिति ॥ अधुनैषां हिमवदादिकुलपर्वतानां अवगाहोच्छ्रयान् प्रतिपादयति
२५६
हिमवदादीनां
मानम्
भा० – पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्रयो हिमिवान् । तद्विर्महाहिमवान् । तद्द्द्विर्निषध इति ॥ टी० - पश्चविंशतीत्यादि उच्छ्रायचतुर्भागोऽवगाहः सर्वेषाम्, उच्छ्रायो योजनशतं अवगाहः पञ्चविंशतिर्योजनानि हिमवतः । एतदेव द्विगुणमुच्छ्रयावगाहप्रमाणं महाहिमवतः, योजनशतद्वयमुच्छ्रयः पञ्चाशदवगाहः । एतद्विगुणं निषधस्य चत्वारि शतान्युच्छ्रायः शतमवगाह इति । नीलादीनां निषधादिवदुच्छ्रयावगाहाविति । इदानीं जीवाधनुःकाष्ठे कथयतिभा०-- भरतंवंशस्य योजनानां चतुर्दश सहस्राणि चत्वारि शतान्येकसप्ततीनि च षड्भागा विशेषोना ( १४४७१६) ज्या । इषुर्यथोक्तो (५२६,६) विष्कम्भः, धनुःकाष्ठं चतुर्दश सहस्राणि
११
शतानि पञ्चाष्टाविंशानि एकादश च भागाः साधिकाः (१४५२८३३) ।
टी० - भरतवंशस्येत्यादि भाष्यम् । हिमवत आराद्भागवर्तिनी जीवेयं प्रतिपत्तव्या, धनुःकाष्ठं च इषुर्यथोक्तो विष्कम्भ इति प्रागभिहितोऽपि पुनरिहोपन्यस्तः इषुरिति, तत्रैवं नोक्तस्तस्मात् पुनरुपन्यास इति ।
भरतस्य ज्यामानादि
वैताळ्यो देव
कुरवश्च
[ अध्यायः ३
भा०-- भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताढ्यपर्वतः षड् योजनानि सकोशानि धरणिमवगाढः पञ्चाशद् विस्तरतः पञ्चविंशत्युच्छ्रितः । विदेहेषु निषधस्योत्तरतो मन्द्रस्य दक्षि णतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता
Jain Education International
―――
देवकुरवः ।
टी० - भरत क्षेत्रमध्य इत्यादि । वैताढ्य पर्वतो दक्षिणोत्तरार्ध विभागकारी विद्याधराधिवासः पञ्चाशत्पष्टिनगरयुक्तदक्षिणोत्तरश्रेणिद्वयालंकृतो गुहाद्वयोपशोभितश्च प्रतिपत्तव्यः । विदेहेष्वित्यादि । मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवो भवन्ति, ते च काञ्चनपर्वतकशतेनोपशोभिताः हृदपञ्चकोभयपर्यन्तव्यवस्थितैर्दशभिर्दशभिः काञ्चपर्वतैर्विभूषिताः, शीतोदानदीपूर्वापर गौ निपधाच्चतुस्त्रिंशाष्टशतसचतुः सप्तभागान्तरौ चित्रविचित्रकूटौ योजन सहस्रोच्चौ तावदधोविस्तृतौ तदर्धमुपरि ताभ्यां चोपशोभिता देवकुरवः । ते च -
१० वर्ष' इति घ- पाठः । २ 'विशेषतो ' इति घ-पाठः । ३ ४ क्रोशाः = १ योजनम् ।
For Personal & Private Use Only
www.jainelibrary.org