SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ धरस्वरूपम सूत्र ११] स्वोपज्ञभाष्य-टीकालङ्कृतम् २५५ अथैषां भरतादिक्षेत्राणां किंकृतो विभाग इत्याहसूत्रम्-तद्विभाजिनः पूर्वापरायता हिमवन्-महाहिमवन-निषध-नील रुक्मिशिखरिणो वंशधरपर्वताः॥ ३-११ ॥ टी०-तानि विभकुं शीलमेपामिति तद्विभाजिनोऽकृत्रिमसनिवेशित्वात् तच्छीलाः, पूर्वापरायता इत्युभयतो लवणजलधिमवगाढाः हिमवदादिसंज्ञानिर्देशः, वंशा वर्षा वा क्षेत्राणि तेषां धारकाः-विशिष्टव्यवच्छेदकारिणो गिरयोऽनादिकालव्यवस्थानाः । ___ भा०--तेषां वर्षाणां विभक्तारः हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरीत्येते षड् वर्षधराः पर्वताः॥ भरतस्य हैमवतस्य च विभक्ता हिमवान् । हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवान्, हिमवदादिवर्ष म इत्येवं शेषाः ॥ तत्र पञ्च योजनशतानि षड्विंशानि षट् चैको - नविंशतिभागा(५२६,६ ) भरतविष्कम्भः। स दिद्धिर्हिमवद्धमवतादीनामाविदेहेभ्यः । परतो विदेहेभ्योऽर्धार्धहीनाः ॥ टी०-- तेषां वर्षाणामित्यादि भाष्यं प्रायो गतार्थम्, कथं पुनरमी वंशधरपर्वता इत्यादर्शयति-भरतस्य हैमवतस्य च विभक्ता हिमवान् । तन्मध्यव्यवस्थितत्वाद् भारतहैमवतयोविभागमापादयति हिमवान् । तथा हैमवतहरिवंशयोर्व्यवस्थाकारी महाहिमवान्। इत्येवं शेषगिरयोऽपि नामग्राहं वक्तव्या इत्यतिदिशति, हरिवंशविदेहयोर्विभक्ता निषधः, विदेहरम्यकयोर्विभक्ता नीलः, रम्यकहैरण्यवतयोविभक्ता रुक्मी, हैरण्यवतैरावतयोविभक्ता शिखरीति।।अधुनैषां क्षेत्राणां विभागे सति प्रमाणमाख्याति-तत्र भरतक्षेत्रमारोपितचापाकारम्, अतः प्रागिषोरेव प्रमाणमुच्यते-पञ्च योजनशतानि षइविंशत्यधिकानि षट् चैकोनविंशतिभागा योजनस्य भरतक्षेत्रविष्कम्भः । अपरे त्विदमेव भाष्यवाक्यं सूत्रीकृत्याधीयते । विष्कम्भत इति मध्यप्रदेशे भवति, एवमैरावतक्षेत्रविष्कम्भोऽपि । हिमवदादिपर्वतानां शेषक्षेत्राणां चैवमतिदिशन्नाह-से द्विििहमवद्धमवतादीनामाविदेहेभ्य इति, तद्यथा-हिमवच्छिखरिणोर्योजनसहस्र द्वयुत्तरपञ्चाशताधिकं द्वादश चैकोनविंशतिभागा योजनस्य, हैमवतहरण्यवतयोः सहस्रद्वयं शतं च पश्चोत्तरं पञ्च चैकोनविंशतिभागा योजनस्य, महाहिमवद्क्मिणोश्चत्वारि सहस्राणि शतद्वयं दशोत्तरं दश चैकोनविंशतिभागा योजनस्य, हरिरम्यकयोरष्टौ सहस्राणि चत्वारि शतान्येकविंशत्यधिकानि एकश्चैकोनविंशतिभागो योजनस्य, निषधनीलयोः षोडश सहस्राण्यष्टौ शतानि द्वयुत्तरचत्वारिंशताधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य, विदेहानां त्रयस्त्रिंशत्सहस्राणि षट् च शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्येति । परतो विदेहेभ्योऽर्धार्धहीना इति । नीलादीनां प्रमाणमाचष्टे लापविक आचार्य: १ वर्षधर०' इति घ-पाठः । २ ‘स भरतेषुर्द्विगुणो द्विगुणः पर्वताना क्षेत्राणां विष्कम्भो भवत्याविदेहेभ्य इति ग-टी-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy