________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३
भा०- यच वायव आपो धारयन्ति न च विष्वग् गच्छन्ति आपच पृथिवीं धारयन्ति न च प्रस्पन्दन्ते । पृथिव्यश्वाप्सु विलयं न लोकानुभावजाः गच्छन्ति । तत् तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोकविनिवेशस्य लोकस्थितिरेव हेतुर्भवति ।
२४६
टी०० – यश्च वायव इत्यादि । तनुवातवलयमाकाशप्रतिष्ठमनालम्बनं घनवातवलयं चिभर्ति, घनमारुतवलयमप्यापो धत्ते, न च ता आपो विष्वग् गच्छन्ति, विशीर्यन्ते स्रवन्तीत्यर्थः आपश्च कठिनीभूताः सत्यः पृथिवीर्धारयन्ति न स्पन्दन्ते, ताथ पृथिव्यो न तास्वप्सु विलीयन्ते, स एष सर्वोऽप्यनादिपारिणामिकः क्रमसन्निवेशो नित्यसन्ततिर्द्रव्यास्ति कनयाव - लम्बनात् । तथा चागमः -' - "ईमा णं भंते ! रयणप्पभा पुढवी किंसासता असासता ? गोयमा ! सिय सासया सिय असासया, से केणट्टेणं भंते ! एवं बुच्चइ ? गोयमा ! दव्वहयाए सासया, वणपज्जवेहिं गन्धपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया, से एतेणं अद्वेणं गोयमा ! एवं बुच्चइ" । अस्यावस्थानस्य लोकानुभाव एव हेतुः कारणं भवतीति ।
भा०—अत्राह-उक्तं भवता- 'लोकाकाशेऽवगाह:' (अ० ५, सू०१२), 'तदनन्तरमूध्वं गच्छत्यालोकान्तात् (अ०१०, सू० ५ ) इति । तत्र लोकः कः कतिविधो वा किंसंस्थितो वेति ? । अत्रोच्यते - पञ्चास्तिकाय समुदायो लोकः ।
टी० - अत्राह उक्तं भवतेत्यादिः सूत्रपातनिकाग्रन्थः । सूत्राण्यधिकृत्योच्यते, उक्तं भवता - 'लोकाकाशेऽवगाह : ' पञ्चमेऽध्याये (सू०१२), तथा दशमे ( सू० ५ ) तदनन्तरमूर्ध्व गच्छत्यालोकान्तादिति, " एवमनेकस्मिन् सूत्रे लोकशब्द उच्चरितः, तत्र को लोकः कतिविधो वा किंसंस्थितो वेति ? उच्यते - पञ्चास्तिकायसमुदायो लोकः । धर्माधर्माकाशजीवपुद्गलाः पञ्चास्तिकायास्तत्समुदायो लोकः, आकाशमाधारो भवति, धर्मादयस्त्वाधेयाः, आधाराधेयभावेन यदवस्थानमनाद्यमेषां स लोकः, तथा चागमः - " किंमिदं भंते ! लोगेत्ति पवुच्चति ? गोयमा ! जीवा चेव अजीवा चैव " ।
भा०- ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता वक्ष्यन्ते च । लोकः क्षेत्रविभागेन त्रिविधः - अधस्तिर्यगध्वं चेति । धर्मा धर्मास्तिकाय लोकव्यवस्थाहेतु । तयोरवगाहनविशेषाल्लोकानुभावनियमात् सुप्रतिष्ठकवज्राकृतिर्लोकः । अधोलोको गो
लोकस्य
त्रैविध्यं
केन्धरार्धाकृतिः ॥
१ इयं भदन्त ! रत्नप्रभा पृथ्वी किं शाश्वती अशाश्वती ? गौतम ! स्यात् शाश्वती स्यात् अशाश्वती । तत् केनान भदन्त ! एवमुच्यते ? गौतम ! द्रव्यार्थतया शाश्वती, वर्णपर्यवैर्गन्धायैवै रसपर्यवैः स्पर्शपर्यवैरशाश्वती, तदेतार्थेन गौतम । एवमुच्यते ।
२ किमयं भदन्त ! लोक इति प्रोच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव ।
३ ' ० मूर्ध्वश्चेति इति घ-टी- पाठः । ४' लोक हेतू' इति क-ग-पाठः । ५ कन्धराकृतिः इति क-खपाठः । ‘कन्धाराधरार्धाकृतिः' इति तु ग-पादः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org