________________
सूत्रं ६ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२४५
षट्स्वेक-त्रि- सप्त-दश-सप्तदश-द्वाविंशतिसागरोपमा जघन्या स्थितिर्भवति । इयं चस्थितिर्जघन्या उत्कृष्टा वा सामान्येनैकस्यां पृथिव्यामुक्ता न प्रथमप्रतरादिभेदेन, प्रतिप्रतरं स्थितिपरिज्ञानाय विशेषार्थिना नरकेन्द्रकाः समालोकनीया इति । अथैतासु सप्तसु पृथिवीषु किमविशेषेण सर्वे प्राणिनो नरकास्रववर्तिनः सर्वात्पद्यन्ते उत केचित् कस्याश्चिदिति, तथा के वा कुतो भूमेरुद्दवृत्ताः सन्तो भवन्ति, किं वा लभन्ते सम्यग्दर्शनादीनाम् ? इत्यत आह
-
भा०-तंत्रात्रवेषु यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामुत्पद्यन्ते । सरीसृपा द्वयोरादितः प्रथमद्वितीययोः । एवं पक्षिणस्तिसृषु । सिंहाः चतसृषु । उरगाः पञ्चसु । स्त्रियः षट्सु । मत्स्यमनुष्याः सप्तस्थिति । न तु देवा नारका वा नरकेषूपपत्तिमाप्नुवन्ति । नहि तेषां बह्वारम्भपरिग्रहादयो नरकगतिनिर्वर्तका हेतवः सन्ति (अ०६, सू० १६) । नायु नारका देवेषूत्पद्यन्ते । न ह्येषां सरागसंयमादयो देवगतिनिर्वर्तका हेतवः सन्ति (अ०६,सू० २० ) । उद्धृत्तास्तु तिर्यग्योनौ मनुष्येषु वा उत्पद्यन्त । मनुष्यत्वं च प्राप्य केचित् तीर्थकर त्वमपि प्राप्नुयुरादितस्तिसृभ्यः, निर्वाणं चतसृभ्यः, संयमं पञ्चभ्यः, संयमासंयमं षड्भ्यः, सम्यग्दर्शनं सप्तभ्योऽपीति ।
टी० – तत्रास्रवेषु यथोक्तैर्नारक संवर्तनीयैरित्यादि भाष्यं सुज्ञानम् ॥ अधस्तनीषु षट्स्वपि भूमिषु रत्नप्रभादिवत् किं द्वीपादिविनिवेशाः सन्ति । न सन्तीत्यत आहभा० - द्वीप - समुद्र - पर्वत-नदी- हृद्-तडाग - सरांसि वा ग्राम-नगर-पत्तनादयो विनिवेशा बादरो वनस्पतिकायो वृक्ष-तृण- गुल्मादि: हीन्द्रिनारकेष्वसंभविनः यादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति । पदार्थाः अन्यत्र समुद्घातोपपातविक्रियासातिकनरकपालेभ्यः । उपपाततस्तु देवा रत्नप्रभायामेव सन्ति । नान्यासु । गतिस्तृतीयां यावत् ।
नारकाणामागतिर्गतिश्व
टी० - - द्वीपसमुद्रेत्यादि भाष्यं सुज्ञानं प्रायः । नैते द्वीपादयः सन्ति सन्निवेशा रत्न - प्रभामपहायान्यत्रेति, एतस्य विधेरपवादः अन्यत्र समुद्घात इत्यादि । समुद्घातगताः केवलिनः, औपपातिका नारका एव, तथा वैक्रियलब्धिसम्पन्नाः, साङ्गतिकाः पूर्वजन्ममित्रा - दयः, नरकपालाः परमाधार्मिकाः, एते सर्वेऽपि द्वितीयादिषु भूमिषु कदाचित् केचित् कचित् संभवेयुरपीति, उपपातमङ्गीकृत्य रत्नप्रभायामेव देवाः सन्ति न शेषासु, गमनमङ्गीकृत्य यावत् तृतीयां ततः परं न गच्छन्त्येव शक्तौ सत्यामपि लोकानुभावादेवेति । तथा अन्य - मपि लोकानुभावमादर्शयति प्रसङ्गात्
१' तत्रासवैः' इति घ-पाठः । २ ' उद्वर्तितास्तु' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org