________________
सूत्रं ५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२४३ .टी.-चशब्दः परस्परोदीरणं क्षेत्रस्वभावं चाभिमुखीकरोति । प्राक् चतुर्थ्या इति मर्यादा नाभिविधिरिति । सतिष्टचित्तास्त्वशुभानुबन्धिवालतपोकामनिर्जरोपार्जितदेवजमानः स्वल्पविभवलाभाध्माता जन्मान्तरानालोकिनः एतावत्रैलोक्ये सुखमित्यध्यवसिताः। ते च भवनवासिनां प्रथम एवासुरनाम्नि निकाये भवन्ति, नान्येषु, तेषु नामोत्कीर्तनेनापि रौद्रतया भयमादधति किमुत दर्शनेनेत्यावेदयति
भा०—तद्यथा-अम्बाम्बरीष-श्याम-शबल-रुद्रोपरुद्रकाल-महाकालास्य. सिपत्रवन-कुम्भी-वालुका-चैतरणी-खर-स्वर-महाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु सक्लिष्टकर्माणः पापाभिरतयः आसुरीं गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणां वेदनाः समुदीरयन्ति विचित्राभिरुपपतिभिः । तद्यथा-ततायोरसपायननिष्टप्तायःस्तम्भालिङ्गनकूटशाल्मल्यग्रारोप
णावतारणायोधनाभिवातवासीरुरतक्षणक्षारतप्ततैलाभिषेचपरमाधार्मिक नायस्कुम्भपाकाम्बरीषभर्जनयन्त्रपीडनायःशूलशलाकाभेदन
क्रकचपाटनाङ्गारदहनवाहनसूचीशाड्वलापकर्षणैस्तथा सिंहव्याघ्र-दीपि-श्व-शृगाल-वृक-कोक-मार्जार-नकुल-सर्प-वायस-गृध्र-काकोलूक-श्येना. दिखानैस्तथा तसवालुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति॥
स्यादेतत् किमर्थमेवं ते कुर्वन्तीति। अत्रोच्यते-पापकर्माभिरतय इत्युक्तम्। तद्यथा-गो-वृषभ-महिष-वराह-मष-कुक्कुट-वार्तकलावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिघ्नतःपश्यतांरागद्वेषाभिभूतानां अकुशलानुबन्धिपुण्यानां नराणां पराप्रीतिरुत्पद्यते तथा तेषामसुराणां नारकास्तथा तानि कारयतामन्योन्यं घ्नतश्च पश्यतां परा प्रीतिरुत्पद्यते । ते हि दुष्टकन्दपोंस्तथाभूतान् दृष्ट्वाऽहासं मुश्चन्ति, चेलोत्क्षेपाक्ष्वेडितास्फोटितावल्लिततलतालेनिपातांश्च कुर्वन्ति, महतश्च सिंहनादान नदन्ति । तच तेषां सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपहतस्यानालोचितभावदोषस्याप्रत्यवक र्षस्थाकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं, यत्सत्स्वप्यन्येषु प्रीतिहेतुष्वशुभभावा एव प्रीतिहेतवः समुत्पद्यन्ते । इत्येवमेप्रीतिकरं निरन्तरं सुतीनं दुःखमनुभवतां मरणमपि काङ्क्षतां तेषां न विपत्तिरकाले विद्यते, कर्मनिर्धारितायुषाम् । उक्तं. हि-'औपपातिकचरमदेहोत्तमपुरुषासंख्येयवर्षायुषोऽनपवायुषः' (अ०२, सू०५३) इति। नैवतत्र शरणं विद्यते, नाप्यपक्रमणम्। सतः कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेषां सद्य एव संरोहन्ति शरी
१'पायिनोनिष्ट ' इति क-पाठः। २' तर्जन' इति घ-पाठः। ३ ‘वतरासिपत्र' इति क-पाठः । ४"नियातनाश्च' इति ग-पाठः, 'निपातनांश्च' इति तु घ-पाठः । ५'मप्रतीकारम्' इति ग-टी-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org