________________
२४२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ भा०-तत्र क्षेत्रस्वभावजनितः पुद्गलपरिणामः शीताष्णक्षुत्पिपासादिः ।
शीतोष्णे व्याख्याते । क्षुत्पिपासे वक्ष्यामः । अनुपरतशुष्कन्धक्षत्रजा वदना नोपादाननेवाग्निना तीक्ष्णेन प्रततक्षुदग्निना दन्दह्यमानशरीरा अनुसमयमाहारयन्ति ते सर्वपुद्गलानप्यास्तीव्रया च नित्यानुषक्तया पिपासया शुष्ककण्ठोष्ठतालुजिह्वाः सर्वोद्धीनपि पिबेयुः, न च तृप्तिं समाप्नुयुस्ते वर्द्धयातामेव चैषां क्षुतृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि ॥
टी-तत्र क्षेत्रस्वभावजनितेत्यादि सुगमम् । पुनः सूत्रं परामृश्य सूत्रार्थाख्यानं करोति ॥ ___ भा०-परस्परोदीरितानि च । अपि चोक्तम्-'भवप्रत्ययोऽवधि रकदेवानाम्'(अ०१,सू०२२)इति । तन्नारकेश्ववधिज्ञानम् अशुभभवहेतुकं मिथ्यादर्शनयोगाच विभङ्गज्ञानं भवति । भावदोषोपघातात तु तेषां दुःखकारणमेव भवति । तेन हि ते सर्वतः तिर्यगू मधश्च दूरत एवाजलं दुःखहेतून पश्यन्ति । यथा च काको. लुकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः। यथा वा अपूर्वान् शुनो दृष्ट्वा श्वानो निर्दयं कुध्यन्त्यन्योऽन्यं प्रहरन्ति च, तथा तेषां नारकाणामवधिवि
१. षयेण दूरत एवान्योऽन्यमालोक्य क्रोधस्तीव्रानुशयो जायते, परस्परोदीरितं
त दुरन्तो भवहेतुकः । ततः प्रागेव दुःखसमुद्घातार्ताः क्रोधादुःखम्
न्यादीपितमनसः अतर्किता इव श्वानः समुद्धता वैक्रियं भयानक रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायःशुलशिला-मुशल-मुद्गर-कुन्त-तोमरासि-पहिश-शक्ति-योधन-खड्ग-यष्टि-परशु-भिण्डि मालादीन्यायुधान्यादाय कर-चरण-दशनैश्चान्योऽन्यमभिघ्नन्ति । ततः परस्पराभिहता विकृताङ्गा निस्तनन्तो गाढवेदनाः सूनाघातनप्रविष्टा इव महिषशकरोरभ्राः स्फुरन्तो रुधिरकमेऽपि चेष्टन्ते। इत्येवमादीनि परस्परोदीरितानि नरकेषु नारकाणां दुःखानि भवन्तीति ॥ ४॥
टी-परस्परोदीरितानि चेत्यादि। परस्परोदीरणायां कारणं दर्शयति-अपि चोतं-भवप्रत्ययोऽवधि रकदेवानामिति मिथ्यादृशां विभङ्गज्ञानमितरेषामवधिज्ञानमेव, शेषं सुज्ञानमत्र भाष्यमिति ॥ ४॥
एवं ते परस्परेणोदीरयन्ति दुःखम्, विशेषेण तुसूत्रम्-सक्लिष्टासुरोदीरितदुःखाश्व प्राक् चतुथ्याः ॥३-५ ॥
भा०-सक्लिष्टासुरोदीरितदुःखाश्च नारका भवन्तीति । तिसृषु भूमिषु माक चतुर्थ्याः।
१. नितपुद्गल.' इति ख-घ-पाठः । २ 'तीक्ष्णोदरागिना' इति ग-पाठः' 'तीक्ष्णेन प्रततेन क्षुद० ' इति तु घ-पाठः । ३ 'येन ते' इति ग-पाठः । ४ 'प्नुयुर्वर्धयाता' इति ग-पाठः । ५ 'शक्तययोधन' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org