________________
२४० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ चतुर्हस्तं धनुरिति । अथ शेषासु कथं भूमिष्वित्यत आह-द्विह्निः शेषासु । रत्नप्रभानारकशरीरप्रमाणं द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणम् । तदपि द्विगुणं तृतीयस्याम् । एवं यावत् सप्तम्यां पञ्च धनुःशतानि पूर्णानि । उत्तरवैक्रियं तु प्रथमायां जघन्येनाङ्गुलसख्येयभागप्रमितम्, अन्यासु च, उत्कर्षेण पञ्चदश धनूंषि अर्धतृतीयाश्च रत्नयः प्रथमायाम्, एतदेव दिगुणं द्वितीयस्याम्, एवं तावत् ज्ञेयं यावत् सप्तम्यां धनुःसहस्रमिति । एतचाधःप्रमाणं रत्नप्रभादिषु पर्यन्तवर्तिप्रतरनारकाणामुत्कृष्टं द्रष्टव्यम्, जघन्यमुत्कृष्टं वा प्रथमप्रतरादिभेदेन सर्वत्र वक्तव्यम्,स्थितिवत् । यथाऽऽयुषः स्थितिः प्रथमप्रतरादिभेदेन भिद्यमाना दशनवतिसहस्रादिना रत्नप्रभायां पर्यन्तप्रतरे सागरोपमप्रमाणा भवत्येवमेव शरीरप्रमाणमपि प्रथमप्रतरादिभेदेन जघन्योत्कृष्टाभ्यां भेत्तव्यमित्यावेदयति । उक्तमिदमतिदेशतो भाष्यकारेणास्ति चैतत्, न तु मया कचिदागेमे दृष्टं प्रतरादिभेदेन नारकाणां शरीरावगाहनमिति ॥ भा०--अशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः। तद्यथा--प्रथमायां उष्णवे
दनाः, द्वितीयायामुष्णवेदनाच, तीव्रतरास्तीव्रतमाश्चातृतीयायानारकाणां वेदना म
गावदना म, उष्णशीते चतुर्थ्याम् , शीतोष्णे पञ्चम्याम्, परयोः शीततराः शीततमाश्चेति, तद्यथा-प्रथमशरत्काले चरमनिदाघे वा पित्तप्रकोपाभिभूतशरीरस्य सर्वतो दीसानिराशिपरिवृतस्य व्यभ्रेनभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मासयोस्तुषारलिप्तगात्रस्य रात्री हृदयकरचरणाधरोष्ठदशनायासिनि प्रतिसमयप्रवृद्धे शीतमारुते निरग्न्याश्रयप्रावरणस्य यादृक् शीतसमुद्भवं दुःखमशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति । यदि किलोष्णवेदनानरकानुत्क्षिप्य नारकः सुमहत्यङ्गारराशावुहीसे प्रक्षिप्येत सकिल सुशीतां मृदुमारुतां शीतलच्छायामिव प्राप्तः सुखमनुपमं विन्द्यात, निद्रां चोपलभेत, एवं कष्टतर्र नारकमुष्णमाचक्षते। तथा किल यदि शीतवेदनान्नरकादुत्क्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सैदन्तशब्दोत्तमप्रकम्पायासकरेऽपि तत्सुखं विन्द्यादनुपमा निद्रां चोपलभेत, एवं कष्टतरं नारकशीतदुःखमाचक्षते इति ॥
१ कपंशन्दः क-ख-पाठे नास्ति । २ 'शरीराणां द्विगुणं' इति क-ख-पाठः । ३ 'पूर्णानीति' इति ग-पाठः । 'प्रमाणं' इति क-पाठः । ५ आगमशब्देनात्र मूलागमः, तेन वृत्त्यादिषु एतत्सत्वेऽपि न क्षतिः, उत्तरं तु पृथ्वीवद् द्विगुणमिति स्पष्टमेव । 'अशुभतरवेदनाः' इत्यधिको ग घ-पाठः । ७ 'तद्यथा-उष्णवेदनास्तीवास्तीव्रतरास्ती. ब्रतमा ततीयायाः' इति ग-घ-पाठः। 'शीताः शीततराश्चेति' इति घ-पाठः। ९'प्रकृष्ठमुष्ण' इति क-ख-पाठः। १. 'तुषारमिन ' इति क-पाठः । ११ 'सदम्त ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org