________________
सूत्रं ३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२३९ र्दीनकृपणकरुणैर्याचितैर्वाष्पसन्निरुद्धैर्निस्तनितैर्गाढवेदनैः कूजितैः सन्तापोच्छासनिश्वासैरनुपरतभयस्वनाः ।
टी-अशुभतरपरिणाम इत्यादि । स्पर्श-रस-गन्ध-वर्ण-शब्द-संस्थान-भेद-गति-बन्धागुरुलघुपरिणामो दशधा । स्पर्शस्तावद् वृश्चिकदंश-कपिकच्छू-मुर्मुराङ्गारसदृशः, रसोऽपि तत्रत्यपुद्गलानां पिचु-मन्द-कोशातकीनिर्याससमः, गन्धोऽपि श्व-मार्जार-शृगाल-हस्त्यश्व-कुथितमृतकगन्धातिरिक्ततराशुभपरिणामः, वर्णोऽपि गम्भीरलोमहर्पणः त्रासकारी परमकृष्णः, शब्दोऽपि खरपरुषनिष्ठुरपरिणामः, संस्थानं नरकाकृतिः नारकाकृतिश्च, उभयमप्यालोक्यमानमेवोद्वेगमुपजनयति महाश्वभ्रवत् पिशाचाकृतिवद् वा, भेदपरिणामोऽपि पुद्गलानामशुभः शरीरनरककुड्यादिभ्यो विभिद्यमानाः पुद्गलाः वर्णस्पर्शादिभिरशुभपरिणामा जायन्ते, ततश्च दुःखहेतवो भवन्ति, गतिनारकाणामप्रशस्तविहायोगतिनामकर्मोदयादशुभा भवन्त्युष्ट्रपतङ्गादिवद्, बन्धोऽपि पुद्गलानां शरीरादिषु संश्लिष्यतामत्यन्ताशुभतरपरिणामो भवति, वर्णादिभिः अगुरुलघुपरिणामोऽप्यशुभः, सर्वेषां हि जीवानां शरीराण्यात्मनो न गुरूणि नापि लघूनीत्यगुरुलघुपरिणामः, स चानिष्टोऽनेकविधदुःखाश्रयत्वात्। अत्र च भाष्यकारेण स्पर्शादिदशविधपरिणामे किञ्चिद् दर्शितं किञ्चिन्न । तिर्यगूर्वमधश्चेत्यादिना वर्णपरिणामः प्रतिपादितः, श्व-शृगाल-मार्जारादिना गन्धः, हा मातः! धिगहो कष्टमित्यादिना शब्दपरिणामः । शेषास्तु ग्रन्थगौरवभीत्या न प्रतिपदमुक्ताः, एतत्सम्बन्धित्वात् तु वक्तव्या इति ॥ . भा०-अशुभतरदेहाः । देहाः शरीराणि । अशुभनामप्रत्ययादशुभान्य
नारकाणां शरी- ङ्गोपाङ्गनिर्माणसंस्थानस्पर्शरसगन्धवर्णस्वराणि हुण्डानि निलूरस्वरूपं मानं च नाण्डजशरीराकृतीनि । क्रूर-करुण-बीभत्स-प्रतिभयदर्शनानि दुःखभाज्यशुचीनि च तेषु शरीराणि भवन्ति । अतोऽशुभतराणि चाधोऽधः। सप्त धनूंषि यो हस्ताः षडङ्गुलमिति शरीराच्छायो नारकाणां रत्नप्रभायाम् । द्विह्निः शेषासु । स्थितिवच्चोत्कृष्टजघन्यतो वेदितव्यः ॥
टी-अशुभतरदेहा इत्यादि । अशुभनामकर्मोदयप्रत्ययात् सर्वाण्यङ्गोपाङ्गादीनि तदेहेष्वशुभानि द्रष्टव्यानि,सर्वाङ्गावयवानांस्वप्रमाणेष्वव्यवस्थानात्,तेषां हि नियतमेव हुण्डानि शरीराणि, उत्खातशेषपिच्छपक्षिशरीरव बीभत्सानि । तानि च तेषां द्विविधानि शरीराणि भवन्ति-भवधारकाण्युत्तरवैक्रियाणि च,तत्र भवधारकं जघन्येनाङ्गुलासङ्ख्येयभागप्रमाणं प्रथमायाम्, अन्यासु च पृथिवीषु, उत्कर्षेण सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानीति उत्सेधागुलमङ्गीकृत्योच्यते । परमाण्वादिक्रमेणाष्टौ यवमध्यान्यङगुलमेकम्, चतुर्विंशत्यङ्गुलो हस्तः, १ 'पोष्णैश्च निश्वा०' इति घ-पाठः । २०ता वेदितव्या' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org