________________
तेनैव स्वपदप्रतिष्ठिततनुः श्रीककसरिप्रभु
नानाशास्त्रसुबोधबन्धुरमतिर्जज्ञे स विद्वानिह । मीमांसां जिनचैत्यवन्दनविधि पश्चप्रमाणी तथा
बुद्ध्वा यस्य कृतिं भवन्ति कृतिनः सदोधशुद्धाशयाः ॥५॥-शाईल. तत्पादपद्मद्वयचञ्चरीकः
शिष्यस्तदीयोजनि सिद्धमुरिः। तसाद वभूवोज्वलशीलशाली
त्रिगुप्तिगुप्तः खलु देवगुप्तः ॥६॥"-उपजाति: द्वितीयदेवगुप्तसूरयः पूर्वावस्थायां जिनचन्द्रगणीति नाना प्रथिवा नवतत्त्वप्रकरणप्रणेतार इति समाप्ति( पश्चदशम )गाथाविवरणात् स्फुटमेवावगम्यते । सा गाथा चेयम्
" इय एए नवतत्ता, सभेयभिन्ना उ संगहनिमित्तं ।
गणिणा जिणचंदेणं, सरणत्थं अप्पणो रइया ॥ १॥" श्रीयशोदेवोपाध्यायनिर्मितं तद्विवरणं तु यथा
"गणिना पाण्मासिकभगवत्यङ्गोपधानोद्वहनावाप्तगणिनाना जिनचन्द्रेण पूर्वाकस्थानामैतव, तस्योत्तरावस्थायां तु श्रीदेवगुप्ताचार्येणेत्यर्थः ।" ___इमे जिनचन्द्रापराभिधानाः सूरयः श्रीकक्कसूरीणां शिष्याः न तु प्रशिया इति प्रतिभाति नवपदप्रकरणप्रान्तगाथादर्शनात् । सा चैवम्
" ईइ नवपयं तु एवं, रइयं सीसेण कक्कमरिस्स ।
गणिणा जिणचंदेणं, सरणत्थमणुग्गहत्थं च ॥१॥" एतत् समर्थ्यते नवपदलघुवृत्तिप्रशस्त्यापि । सा वेत्थम्" नवपदटीका प्रोक्ता, श्रावकानन्दकारिणी। श्रीदेवगुप्तसूरिभि-भावयितव्या प्रयत्नेन ॥१॥ त्रिसप्त्यधिकसहस्रे (१०७३), मासे कार्तिकसंज्ञिते । श्रीपार्श्वनाथ चैत्ये तु, दुर्गमाय च( त ?)पत्तने ॥ २ ॥
१ छाया
एवमेतानि नवतत्त्वानि समेदमित्रानि तु सङ्ग्रहनिमित्तम् ।
गणिना जिनचन्द्रेण स्मरणार्थमात्मनो रचितानि ॥ २ जिनचन्द्रसूरीणामन्तेवासी धनदेवेत्याद्यनामा । ३ छाया
एवं नवपदं त्वेतद् रचितं शिष्येण कत्कत्सूरेः । गणिना जिनचन्द्रेण स्मरणार्थमनुग्रहार्थ च ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org