________________
कथं केवलिन्येकादश परीषहाः कथिताः १ न च क्षुत्पिपासयोः मोहोदयसहायीकृतक्षुधादिवेदनीयजन्यत्वं सत्यमस्तीति वाच्यं, मोहोदयसहायीकृतक्षुधादिवेदनीयजन्यत्वस्य क्षुत्पिपासादिषु 'वेदनीये शेषाः' (अ० ९, सू० १६) इति सूत्रेण निराकृतत्वात् केवलवेदनीयजन्यत्वस्य प्रतिपादनाच्च । अन्यच्च क्षुत्पिपासयोः मोहोदयसहायीकृतवेदनीयजन्यत्वं नास्तीति सयुक्तिकं प्रतिपादितं न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयपादैः अध्यात्ममतपरीक्षाग्रन्थे चतुस्त्रिंशदतिशयानां सिद्धिप्रसङ्गे ।
___ अपरश्च यथा मोहाभावात् अदर्शनलाभनाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्कारा इति एकादश परीषहाः केवलिषु न स्वीक्रियन्ते दिपटैरपि, तथैव क्षुत्पिपासे अपि मोहोदयसहायकाभावात् न स्वीक्रियेतां तैः, स्वीकारश्च तैः कृत इति विचारणीय स्थलं विद्वद्भिः।
'पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः' (अ० ९, मू०४६) इति सूत्रस्य व्याख्यानावसरे पुलाकादीनां विशेषप्रतिपत्त्यर्थमुक्तं श्रीमद्भट्टाकलङ्कदेवैः
"पुलाकबकुशप्रतिसेवनाकुशीलाः द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्भवन्ति ।........ बकुशो द्विविधः-उपकरणबकुशः शरीरबकुशश्चेति । तत्र उपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तः, बहुविशेषयुकोपकरणकाङ्क्षी तत्संस्कारप्रतीकारसेवी भिक्षुरुपकरणब कुशो भवति । शरीरसंस्कारसेवी शरीरबकुशः।"'
-तत्त्वार्थराजवार्तिके (पृ० ३५९) एवं सति केवलकमण्डलु-पिच्छिकायुक्तनन एव साधुः, न तु विशेषोपकरणयुक्तपरिग्रहधारी इति मन्यमानान् दिगम्बरीयान् प्रति प्रश्नोऽयम्
यदि भवतां मते पिच्छिकाकमण्डलू विनाऽन्यस्योपकरणस्यास्वीकार एव, तर्हि उपर्युक्तलक्षणानां बकुशनिग्रेन्थानां निग्रन्थत्वस्याभावः, तेषां उपकरणेषु सक्तचित्तत्वात, विविधविचित्रपरिग्रहयुक्तत्वात्, बहुविशेषयुक्तोपकरणकाङ्कित्वात्, तत्संस्कारप्रतीकारसेवित्वात् । यद्येषामपि निर्ग्रन्थत्वं स्वीक्रियते भवद्भिः, तर्हि किं न धर्मोपकरणानां मुक्तेरबाधकता स्वीक्रियते ।
'मूर्छा परिग्रहः' (अ० ७, सू० १२) इति परिग्रहलक्षणस्वीकारात् बकुशनिम्रन्थेषु धर्मसाधनोपकरणसद्भावेऽपि मूर्छाया अभावात् निर्ग्रन्थत्वं समस्ति इत्यभिप्रायेणेदं सूत्रमुपन्यस्तं सूत्रकारैः इति विरोधपरिहारकरणं दिक्पटानां स्वमतव्याघातभीतेः दुःशकम् ।
अपरश्च दिगम्बरस्वरूपलिङ्गिन एव निर्ग्रन्थाः इति मन्यमानैदिगम्बरैर्विचारणीयः तत्त्वार्थराजवार्तिककाराणामयं मुद्रालेखः--
१ सर्वार्थसिद्धिटीकायामप्येवंविध उल्लेखः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org