________________
२५
नेति प्रतिभाति । अस्मिन्नभावे सिद्धे सूत्रकाराः श्वेताम्बरमतानुसारिण इति सण्टङ्कते । भगवतीप्रज्ञापनादिष्वागमेषु कालाणूनां प्रतिपादनं न कृतम्, एवं सति सूत्रकारैरपि आगमविरुद्धं सूत्रं न व्यरचि ।
ननु कालाणून दिगम्बरा अपि नैव मन्यन्ते इति चेत्, तन्न, तत्त्वार्थराजवार्तिके ( पृ० २२८ ) ' वर्तना परिणामक्रिया परत्वापरत्वे च कालस्य' (अ० ५, सू० २२ ) इति सूत्रस्य व्याख्याने निम्नलिखितोल्लेखात् ।
“ द्विविधः कालः - परमार्थकालः व्यवहाररूपचेति । तत्र परमार्थकालः वर्तनालिङ्गः त्यादीनां धर्मादिवत् वर्तनाया उपकारकः । स किंखरूप इति चेत्, उच्यते - यावन्तो लोकाकाशे प्रदेशास्तावन्तः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनः । "
सूत्रकाराभिप्रायेण निश्रयकालस्यास्वीकारात् तत्स्वरूपाः कालाणवोऽपि न भवेयुः, अत एव तैस्तेषामवगाहक्षेत्रं न प्रदर्शितं, ' मूलं नास्ति कुतः शाखा' इति न्यायात् ।
किश्च यदि कालो मुख्यद्रव्यं स्यात् तर्हि 'अजीव काया धर्माधर्माकाशपुद्गलाः ' ( अ० ५, सू० १ ) इत्यत्राजीवरूपेण तस्याप्युल्लेखः करणीयो भवेत् । ततोऽनन्तरसूत्रे ' द्रव्याणि जीवा' इत्यत्र कालस्यापि मुख्यद्रव्यरूपेण गणना स्यात् । न च कृता सूत्रकारैः, तस्मान्न मुख्यद्रव्यरूपः कालः । न च ' गुणपर्यायवद् द्रव्यं ' ( अ०५, सू० ३८ ) इति द्रव्यस्य लक्षणकथनानन्तरं ' कॉलश्च' (अ०५, सू० ३९ ) इति सूत्रेण कालस्यापि मुख्यद्रव्यत्वरूपेण सिद्धिर्भवतीति वाच्यम् । यदि तत्रोल्लेख करणेऽपि सा सिद्धिर्भवेत्, तर्हि सर्वेषामपि द्रव्याणां मुख्यद्रव्यत्वसिद्धयर्थं तत्रैवोल्लेखः करणीयो भवेत्, न तु प्रथमतः । अपरञ्च तत्रत्यं 'द्रव्याणी' ति सूत्रमपि निष्फलं स्यात् ॥
4
क्षुत्-पिपासा - शीतोष्ण-दंशमशक-चर्या - शय्या-वध-रोग-तृणस्पर्श- मला इति परीषहव्याख्याने सूत्रकारैः किश्च एकादश जिने ' ( अ० ९, सू० ११ ) इति सूत्रेण स्पष्टतयैव केवलिन्याहारपरीषहं व्याख्यायमानैः केवलिनामाहारसद्भाव आख्यायि । दिक्पटास्तु केवलिषु पात्राद्युपकरणाकवलाहारासम्भवमध्यास्यमाना नैवं मन्वते, स्वस्वव्याख्यासु च निषेधाय नञध्याहारादि कुर्वन्ति, परीषहाणां गुणस्थानावतारप्रसङ्गे निषेधाध्याहारादि विहाय असङ्गतं किमपि व्याख्यायते तैः । अत्र चार्य विवेकः - दिक्पटाः केवलिषु कवलाहारं नैवाभिमन्यन्ते, श्वेताम्बरास्तु स्वीकुर्वन्ति । यदि दिक्पटीयाभिप्रायेण मोहोदयसहायी कृतक्षुद्वेदनाया अभावाद् भगवति केवलिनि क्षुत्पिपासाप्रसङ्गाभावः, ततः
4
१' द्रव्याणि ' ' जीवाश्च' इति पृथक् पृथक् सूत्रं दिकूपटमते । २ श्वेताम्बरमते सप्तत्रिंशत्तमं सूत्रमिदम् । ३ ' कालश्चेत्येके ' ( अ० ५, सू० ३० ) इति श्वेताम्बरमतसूत्रपाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org