SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सूत्र ३२] स्वोपज्ञभाष्य-टीकालङ्कृतम् अथ कथेमस्य ते पुद्गलास्तद्योग्या ग्रहणमागच्छन्ति, केन हेतुना लगन्त इतियावत्, अत आह-'सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते' ( अ०८, सू० २ ), सकपायत्वाल्लगन्ति ते पुद्गलाः, स्नेहाभ्यक्तशरीरे रेणुलगनवत्, एतदष्टमेऽभिधास्यते विस्तरेण, तथा पश्चमेऽपि द्रव्योपकारप्रस्तावेऽध्येष्यते-कायवाङ्मनःप्राणापाना: पुद्गलानामुपकारः (अ० ५, मू. १५) इति । शरीराणि पञ्चविधान्यौदारिकादीनि पुद्गलानामुपकार इत्यतोऽपि ते पुद्गलास्तथाश्लेषात् तथा परिणमन्ते तस्यामवस्थायामिति, प्रपञ्चत एतत् प्रतिपादयिष्यते तत्रैव । तथाऽष्टमे-'नामप्रत्ययाः सर्वतो योगविशेषात्' (अ०८, सू० २५) सूक्ष्मा एकक्षेत्रावगाढाः स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा इति प्रदेशबन्धविचारे वक्ष्यते । बन्धननामकर्मोदयहेतुतः कर्मपुद्गलग्रहणमिति आद्योपपत्तिबन्धसामान्ये, मध्यमा उपकारभेदविवक्षाद्वारेण, अन्त्या प्रदेशबन्धप्रस्तावाकृष्टेत्यतस्तिसृणामपि सूचनम्, न पुनरभिन्नैकवस्तुसनिपातिन्यस्तिस्रोऽपि, पुनरुक्तदोषप्रसक्तेः, इदं च स्वस्थान एवोपपत्तित्रयमपि विविक्तमुन्मीलिष्यतीति नोत्त्रसितव्यम् , अतो यत् तदेवंविधं पुद्गलग्रहणं तज्जन्म, तच्च त्रिविधम् , आश्रयग्रहणभेदात् तत्वैविध्यं दर्शयितुकामस्तद्यथेत्यनेनोपक्रमते ॥ ३१॥ सूत्रम्-सम्मूर्छनगर्भोपपाता जन्म ॥२-३२ ॥ ___भा०–सम्मूछेनं १ गर्भ २ उपपात ३ इत्येतत् त्रिविधं जन्मभेदाः जन्म ॥ ३२ ॥ व्याख्या टी.-सम्मू नगर्भोपपाता जन्म। सम्मूच्र्छनं गर्भ उपपात इत्येतत् त्रि . विधं जन्मेत्येतावद्भाष्यमस्य सूत्रस्य । अत्र सम्मू मात्रं सम्मूर्च्छनम्, III यस्मिन् स्थाने स उत्पत्स्यते जन्तुस्तत्रत्यपुद्गलानुपसृज्य शरीरीकुवेन् सम्मूछेनं जन्म लभते, तदेव हि तादृक् सम्मूच्छेनं जन्मोच्यते । जन्म च शरीरद्वयसम्बन्धित्वेनात्मनो यः परिणामः, अतस्तत् सम्पूर्छनजन्मोत्पत्तिस्थानवर्तिपुद्गलजालमर्नुपमृद्य न प्रादुरस्ति, किण्वायुपमर्दनात् सुराजन्मवत् , पिष्टकिण्वोदकादीनामुपमदेनात् सुराया जन्म दृष्टम् , तथा बाह्यपुद्गलानामाध्यात्मिकानां चोपमर्दनाद् यज्जन्म भवति तत् सम्मूर्च्छनजन्म व्यपदिश्यते, बाह्यपुद्गलोपमर्दनलक्षणं तावद् यथा कृम्यादीनां काष्ठादिषु, काष्ठत्वक्पकफलादिषु जीवाः कृम्यादयः समुपजायमानाः तानेव काष्ठफलत्वग्वर्तिनः पुद्गलान् शरीरीकुर्वन्त उपजायन्ते, तथा जीवद्वादिशरीरेषु कम्यादयः प्रादुःप्यन्तस्तानेव जीवद्गवादिशरीरावयवानादाय स्वशरीरतया परिणति १'कथमस्मात् पुगलात् तद्योग्या ' इति क-पाठः । २ 'मनुपसृज्य न प्रादु' इति ख-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy