________________
१८८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ सन्निपातापादितसामर्थ्य वर्षति पर्जन्ये नाराचद्रव्यं ज्याहस्तविप्रयोगाहितवेगमग्निज्वालाकलापादीप्तमम्भःपुद्गलग्रहणं कुर्वदेव गच्छति, एवमयमन्तरात्मा कार्मणेन शरीरेण कर्मोष्णत्वाद पुद्गलग्रहणं कुर्वनविच्छिन्नमागामिजन्मनेऽभिधावतीति, न खल्वेवंरूपस्य पुद्गलादानस्य प्रतिषेधः, किन्तु परिपोषहेतुको य आहार औदारिकवैक्रियशरीरद्वयस्य स विवक्षितः प्रतिपेध्यत्वेनेति, अतोऽन्तर्गतावेकं समयं समयद्वयं वाऽनाहारकः, शेषं कालमनुसमयमाहारयति एकद्विसमयव्यतिरिक्तः शेषकालमाहारमभ्यवहरति । अत्यन्तसंयोगप्रदर्शनार्थमनुसमयमित्युक्तम् । अनुसमयमविच्छेदेन, प्रतिसमयमित्यर्थः । उत्पत्तौ प्रथमसमयादारभ्यान्तमुहूर्तिक ओजआहारः, पश्चादाभवक्षयाल्लोमाहारः, कावलिकस्तु कादाचित्कः । कथमेकं दो वेत्यादि, केन प्रकारेणैकं द्वौ वा समयावनाहारको जन्तुर्न पुनरतोऽपि यहून् समयानिसत्र प्रश्ने विकल्पानां विभावना कार्यो, सा च कृतैव द्विविग्रहायामेकं त्रिविग्रहायां द्वाविति । भा०-अत्राह-एवमिदानीं भवक्षये जीवः अविग्रहया विग्रहवत्या वा गत्या
गतः कथं पुनर्जायत इत्यत्रोच्यते-उपपातक्षेत्रं स्वकर्मवशात् जन्मसूत्रे
प्राप्तः शरीरार्थ पुद्गलग्रहणं करोति। सकषायत्वाज्जीवः कर्मणो प्रस्तावना
योग्यान् पुद्गलानादत्ते (अ०८, सू०२) इति । तथा कायवाड़ान:प्राणापानाः पुद्गलानामुपकारः ( अ०५, सू० १९)। नामप्रत्ययाः सर्वतो योगविशेषात् (अ०८, सू० २५) इति वक्ष्यामः । तज्जन्म, तच्च त्रिविधम् , तद्यथा
टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः । अत्रावसरे शिष्यः पृच्छत्यजानान:-एवमुक्तेन प्रकारेण इदानीमिति, सर्वसंसारिणां स्वजीवितव्यवच्छेदविशिष्टं कालमामृशति भवक्षये इति, प्रागुपात्तौदारिकवैक्रियशरीरपरिक्षये सति, ऋज्वा वक्रया वा गत्या गत उपपत्तिदेशं प्राप्तो जीवः, केन प्रकारेण पुनजोयत इति । पुनःशब्दः प्राक्तनजन्मापेक्षः, जायते-प्रादुर्भवति, औदारिकवैक्रियशरीरितयोत्पद्यत इतियावत् । अत्र उच्यते-उपपातक्षेत्रं स्वकर्मवशात् प्राप्तः शरीराद्यर्थ पुद्गलग्रहणं करोति, यस्मिन् क्षेत्रे उत्पत्स्यते तदुपपातक्षेत्रमवकाशस्थानमाश्रय इति पर्यायाः, तत्प्राप्तः स्वकर्मवशादिति, पूर्वोपात्तकर्मपरिणतिसामर्थ्यादेव विहाय प्राणान् भवान्तरमासादयति नेश्वरादिप्रेरित इति सूचयति । सर्व हि तस्य कर्माण्येव तदा निष्पादयन्ति, उत्पत्तिस्थानमृजु गन्तव्यमनेन वा मार्गेण यातव्यमस्यांवा वेलायां प्रवर्तितव्यमस्मिन् वा योन्यन्तरे मयोत्पत्तव्यं नान्यत्रेत्येतदशेषमचिन्त्यसामर्थ्यभाजि कर्माण्यात्मपरिणामापेक्षाणि प्रसाधयन्ति, न पुनरन्तरालवर्तितायामुदीक्ष्यमाणस्तिष्ठति वेलाम, नापि सभा सन्ततिपतितान् सत्त्वान् क्रीडतो रिरंसयाऽनुप्रविशति, असमञ्जसत्वात् , अतः कर्मानुभावादनुप्राप्त औदारिकवैक्रियशरीरनिष्पत्तये पुद्गलानां तत्प्रायोग्यानामादानं करोति ।
'शरीरक' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org