________________
१५२
तस्त्वार्थाधिगमसूत्रम्
[ अध्यायः २
ज्ञानोपयोगः, मनः पर्यायज्ञानोपयोगः, केवलज्ञानोपयोग इति मत्यज्ञानोपयोगः, श्रुताज्ञानोपयोगः, विभङ्गज्ञानोपयोग इति । दर्शनोपयोगञ्चतुर्भेदः, तद्यथा-चक्षुदर्शनोपयोगः, अचक्षुर्दर्शनोपयोगः, अवधिदर्शनोपयोगः, केवलदर्शनोपयोग इति ॥ ९ ॥
4
टी. - स द्विविधोऽष्टचतुर्भेदः, तच्छब्देन भाष्यकारोऽनन्तरमुपयोगं सम्बन्धयति, स उपयोगः सकलजीवराशेचिह्नभूतो द्विविधो- द्विप्रकारो भवति । अपरे पुनस्तच्छब्दं नाधीयतेऽनन्तरत्वात् किल स एव सम्भन्त्स्यते नार्थस्तत्पाठेन, तदेतदयुक्तम्, अन्यत्रापि हि तच्छब्दो - पन्यासेऽनन्तर एव सम्बध्येत ततश्च न क्वचित् तच्छन्दः प्रयोक्तव्यः स्यात्, तथा च कायवाङ्मनः कर्म योगः ', ' स आस्रवः' ( अ० ६, सू० १-२ ) इति, सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलानादत्ते', 'स बन्धः' ( अं० ८, सू० २ - ३ ) इति । पुनस्त एवाहुः - नहि योगः भेद्यत्वेन विवक्षितः किन्त्वास्रवता विधीयते योगानां तत्र, अयं पुनरुपयोगों विभित्सितस्तत्र किमन्यः स्याद् यो द्विविधत्वादिना भिद्येत । तथेतरत्रापि पुद्गलादानस्यात्मसात्कृतस्य बन्धविधानम्, अतो न समानम् । उच्यते - कः खल्वयं नियमो यत्र भेदविधिस्तत्र तच्छब्दो न प्रयुज्यते इति ? रुचिमात्रमेवमङ्गीकृतं स्यात्, अविगानेन च भाष्यमेवं पठ्यते - स उपयोगो द्विविधस्तदेतदगमितं स्यात् तस्मादस्तु तच्छन्दः । द्विविध एवोपयोगो भवतीत्यवधार्यते मूलभेदतः, तच्च द्वैविध्यं आचार्यः स्पष्टयतिसाकारोsनाकारश्चेति । आकारो- विकल्पः सह आकारेण साकारः, अनाकारस्तद्विप रीतः, निर्विकल्प इत्यर्थः । एतद् व्याख्यानमं न्येऽपवदन्ते - साकाराना कारयोर्यत्केवलदर्शने शक्त्यभावः प्रसज्यते मनः पर्याये च दर्शनप्रसङ्गः, तयोर्हि घटादि - साकारानाकार सामान्यग्रहणेऽपि ज्ञानमेव तन्न दर्शनमिति, तस्मादाकारो लिङ्गम्, शब्दार्थः स्निग्धमधुरादिशङ्खशब्दादिषु यत्र लिङ्गेन ग्राह्यार्थान्तरभूतेन ग्राकदेशेन वा साधकेनोपयोगः स साकारः, यः पुनर्विना लिङ्गेन साक्षात् सोऽनाकारः, एवं सति पूर्वकं दोषद्वयं परिहृतं भवति, तदेतदयुक्तम्, यत् तावदुच्यते - केवलदर्शने शक्त्यभावः प्रसजतीति का पुनरसौ शक्ति: ? यदि तावद् विशेषविषयः परिच्छेदः शक्तिशब्दवाच्यस्तस्याभावश्चोद्यते ततोऽभिलषितमेव सङ्गृहीतं स्यात् । अथ सामान्यार्थग्रहणशक्त्यभावश्चोद्यते ततस्तस्य दर्शनार्थतैवानुपपन्ना स्यात्, किं हि तेन दृश्यते ? यदप्युक्तं मनः पर्याये दर्शनप्रसङ्ग इति तदागमानवबोधादयुक्तम् । न ह्यागमे मनःपर्यायदर्शनमस्ति, चतुर्विधदर्शनश्रवणात् आगमप्रसिद्धं चेहोपनिबध्यते, न स्वमनीषिका प्रत
२ ' मन्ये एवं वदन्त' इति क-ख- पाठः ।
तच्छ्रब्दस्य सार्थकता
१
"
' सम्बध्यते' इति क- ख- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org