________________
अ६
सूत्र ९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् लक्षितः कर्ता भोक्ता चात्माऽध्यवसातव्यः । अथात्र पर आरेकते-ज्ञानरूप
- आत्मा चेत् अनवरतमेव कस्मान पश्यति सोऽर्थान् ? जानानं हि ज्ञानस्वभावत्वेऽपि
शामादप ज्ञानमुच्यते, ज्ञानं च न जानीते च विप्रतिषिद्धमिदम् , आत्मा च ज्ञानरूपोऽतः सर्वदा तेन जानानेनैव भवितव्यम् , न जातुचिदन्यथेति, कस्माद् विज्ञानात्मकत्वे पूर्वोपलब्धार्थविषयमस्य विस्मरणमविनष्टज्ञानस्य सतो भवति ? किं वा कारणमव्यक्तबोधो भवत्यात्मा ? नाव्यक्तमिष्यते ज्ञानमुपलब्धिस्वरूपत्वात् , न च ज्ञानात्मकत्वात् संशयेनास्य कदाचेदुत्पत्तव्यम् , अशेषविषयग्रहणं च स्यात् निरङ्कुशत्वाज्ज्ञानस्येति ? अत्रोच्यतेज्ञानात्मत्वे सत्यपि नानवरतोपयोगप्रसङ्गः, कथम् ? कर्मवशादयमात्मा सर्वप्रदेशेषु प्रदेशाष्टकमपहाय मध्यवर्तिपिठरान्तर्वर्तिज्वलनज्वालाकलापतप्तोद्वर्तमानवारिवच्चलः सततमेव कुकलाशवदर्थान्तरेषु परिणमते, अनवस्थितोद्धान्तमनस्त्वाच्च कथमुपयुज्येत स चिरमेकस्मिन्नर्थे ? स्वभावादेव चोपयोगस्थितिकालोऽन्तर्मुहूर्तपरिमाणः प्रकर्षाद् भवति, ज्ञानावरणकर्मपटलावच्छन्नत्वाच न सर्वदाऽवैति, यथा प्रकाशमयत्वेऽपि भास्वान् बहलाभ्रपटलाभिभूतमूर्तिर्न प्रकाशते स्पष्टं तथाऽयमात्मेति, स्मृतिरप्यत एव नावश्यम्भाविनी भवति तस्येति प्रत्येतव्यम् । अव्यक्तबोधसंशयासवोर्थग्रहणानि चावरणशीलज्ञानावरणकर्मसद्भावादभ्युपेयानि, यदा च लब्धिरूपान्तःकरणेद्रियाभोगिकानाभोगिकवीर्यसम्पन्नस्य ज्ञानावरणक्षयोपशमो भवति करणानुरूपस्तदा च ज्ञानं तत्क्षयोपशमानुरूपमाविर्भवति, लब्ध्यनुरूपकरणवीर्यानुसारितया, वीर्यापगमे च पुनरपि तदेव कर्मावृणोति सद्यस्तमात्मानं प्रागपाकीर्णशैवलमलानामपामच्छत्वमिव, पुरुषकारव्यापारोपरमसमनन्तरमेव शैवलपटलानि यथा पुनराच्छादयन्ति, यथा वा भस्माद्यनेकद्रव्योघृष्टविमलदपेणतलमागन्तुकश्यामिकामलीमसमाशु जायते तथाऽस्यात्मनो मुहुर्मुहुर्ज्ञानावरणजलधौ निमजनोन्मजने कुर्वतः स्पष्टः स्पष्टतरः स्पष्टतमो मलीमसो मलीमसतरो मलीमसतमश्च बोधः प्रादुरस्ति, अभ्यन्तरीकृतोभयविशेषसामर्थ्यस्थित्युत्पत्तिव्ययानेकधर्माजहद्वृत्तिः सोऽयमात्मा प्रकाशस्वभावतिग्मांशुरिव चैतन्यस्वतत्त्वः स्वपरविभासी साकारानाकारोपयोगद्वयलाञ्छनोऽस्तीति प्रतिपद्यध्वमपास्तसमस्तशङ्कमिति ॥ ८॥ ___एतावज्जीवस्वतत्त्वं विचार्यम् , नातः परं किञ्चिदस्ति स्वनिमित्तानां परनिमित्तानां च जीवधर्माणामभिहितव्यतिरेकेणासम्भवात् , स चोपयोगो यावता भेदेन वर्तते तावता सगृह्यतेऽधुनेत्यत आह
सूत्रम्-स दिविधोऽटचतुर्भेदः ॥२-९॥ भा०–स उपयोगो द्विविधः-साकारोऽनाकारश्च । ज्ञानोपयोगो दर्शनो.
. पयोगश्चेत्यर्थः । स पुनर्यथासङ्ख्यमष्टचतुर्भेदो भवति । ज्ञानोउपयोगस्य भेदाः पयोगोऽष्टविधः-मतिज्ञानोपयोगः, श्रुतज्ञानोपयोगः, अवधि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org