________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः २
दर्शनमोहनीयोदयादज्ञानं भवति, गतिग्रहणाच्छेषनामभेदाः गोत्रवेदनीयायूंषि चाक्षिप्तानि, यस्माद् गतिरायुष्कजात्यादिनामगोत्र वेदनीयानामन्यतमाभावेऽपि न सम्भाव्यते, भवधारणकारणत्वात् एषां कर्मणामिति, तथा लिङ्गग्रहणाद् हास्यादिषट्कग्रहणम्, हास्यादिषट्रकस्य लिङ्गोपग्रहकारकत्वात् कषायग्रहणाद् वा हास्यादिपरिग्रहः, यस्मादेते नव नोकषायाः कषायसहवर्तित्वादुच्यन्त इति ॥ ननु च कर्मप्रकृतिभेदानां द्वाविंशत्युत्तरशतं प्रकृतिगणनया प्रसिद्धमानाये, न च तत्र लेश्याः परिपठितास्तत् कथम् १ । उच्यते - वक्ष्यते नामकर्मणि मनः पर्याप्तिर्नाम पर्याप्तिश्च करणविशेषो येन मनोयोग्यान् पुद्गलानादाय चिन्तयति, ते च मन्यमानाः पुद्गलाः सह करणेन मनोयोग उच्यते, मनोयोगपरिणामच लेश्याः, ताव नोपात्ताः सूत्रभाष्ययोरिहोत्तरोत्तरभेदत्वादिति । अपरे मन्यन्ते - कर्माष्टकोदयादसिद्धत्व एव लेश्या ग्राह्याः, तदेतत् सर्वं सूत्रकारेण लाघवमिच्छता लेशत उपात्तं न साक्षात् ।।
१४६
अधुना भाष्यमनुत्रियते गतिश्चतुर्भेदा नारकादिचतुर्विध पर्यायोत्पादनव्यपदेशकारणसमर्थं यत् कर्म तद् गतिशब्देनोच्यते, तस्य कर्मण उदद्यादयं निर्वर्तते भावो नारकादिः नरकगतिनामकर्मोदयान्नारक इत्येवं सर्वत्र, आत्मगतिनामकर्मणोश्चाभेदमभिसन्धायाचार्येण प्रेक्षापूर्वकारिणा नारक इति निरदेशि, न तु नरकगतिमात्र मौदयिकस्य जीवस्वतत्त्वप्रतिपादनार्थम्, इतिशब्दः सर्वभेदान्तेष्वियत्ताप्रदर्शनार्थः । कपः - संसारस्तस्यायमुपादानकारणविशेषः कषायः । स चतुर्धा क्रोधादिस्तदुदयात् क्रोध्यादिव्यपदेशः । अत्रापि जीवस्वतत्त्वप्रतिपत्तये क्रोधीति व्यपादेशि न क्रोध इति । लिङ्गं त्रिभेदं - स्त्रीत्वादि, तच्च लीनत्वाल्लिङ्गमुच्यते, यस्मात् पुरुपलिङ्गनिर्वृत्तावतिप्रकटायामपि कदाचित् स्त्रीलिङ्गमुदेति न च स्पष्टं बहिरुपलभ्यते नपुंसकलिङ्गं वा, तथा स्त्रियाः स्वलिङ्गनिर्वृत्तावतिस्पष्टायामेव जातुचित् पुन्नपुंसकलिङ्गोदयः, नपुंसकस्याप्येवं स्वलिङ्गनिर्वृत्तावुत्तरकालभाविनी कदाचित् पुंस्त्रीलिङ्गे भवतो न च निर्वृत्तितो लक्ष्यते, कपिलवदिति सर्वत्र योज्यम् । एतदेव त्रिविधं लिङ्गं वेद उच्यते, यस्य कर्मण उदयात पौंस्नं स्त्रैणं नपुंसकत्वं च भवति तलिङ्गम्, अत्राप्यभेदेन निर्देशः पुमान्, स्त्री, नपुंसकमिति । मिथ्यादर्शनमेकभेदं तत्त्वार्थाश्रद्धानलक्षणम्, यस्य कर्मणः उदयान किञ्चित् तत्त्वं श्रद्धत्ते तन्मिथ्यादर्शनम् ॥ ननु च अभिगृहीतानभिगृहीतसन्देहत त्रिधोक्तम्, उच्यते - सर्वत्राश्रद्धानलक्षणं न भिद्यत इत्येकभेदमुक्तम्, अत्राप्यभेदोपचारात् मिथ्यादृष्टिरिति । अज्ञानमेकभेदं ज्ञानदर्शनावरणसर्वघातिदर्शनमोहनीयोदयादज्ञानमनवबोधस्वभावमेकरूपम्, तथैवाभेदमाधाय मनसि व्यपादिशद् अज्ञानीति । असंयतत्वमेकभेदं सज्ज्वलनवर्जकषायद्वादशकोदयादसंयतत्व मेकरूपम्, अत्राप्यभेदेन निर्देशः पर्यायतश्च असंयतः अविरत इति । असिद्धत्वमेकभेदं वेदनीयायुर्नामगोत्रोदयादसिद्धत्वमेकरूपम्, तथैवाभेदादसिद्ध इति प्रदर्शितम् । एकभेदमित्यस्य पर्यायान्तरं कथयति पर्यन्ते
१
' त्रियते' इति ख- पाठः । २ उक्तमेतत् ११३ तमे पृष्ठे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org