________________
सूत्र ६] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१४५ स्वामिकम् , एवमेतत् त्रिविधमपि दर्शनावरणकर्मणः क्षयोपशमादुपजायत इति । अत्र अपीति शब्दः क्षायोपशमिकदर्शनेयत्ताधिगमार्थः । लब्धयः पञ्चविधाः इत्यमुना विवरणेन यथासङ्ख्यमुपदर्शयति-दानलब्धिरित्यादिना भाष्येण, आदिशब्दाक्षिप्ताः प्रतिविशिष्टा एव लब्धीरुपवर्णयति, अनेकरूपत्वाल्लब्धीनाम् ॥ नन्वनन्तरसूत्रनिर्दिष्टाः प्रतिपदमेता एव ग्रहीष्यन्ते न पुनरुपादेया इति उच्यते-अत एव सूत्रे नोपात्ताः, प्रतिपदविवरणे पुनर्न दोषः कश्चित् , यथा यथा सुविवृतं भवति तथा तथा विवृणोति । एताः पश्चापि लब्धयोऽन्तरायकर्मणां क्षयोपशमाद् भवन्ति, सम्यक्त्वमनन्तानुबन्धिकषायदर्शनमोहक्षयोपशमादाविवकास्ति, चारित्रमपि दर्शनमोहकषायद्वादशकक्षयोपशमाज्जायते सकलविरतिलक्षणम् , संयमश्वासावसंयमश्च संयमासंयमः-सङ्कल्पकृतात् प्राणातिपातानिवृत्तिरारम्भकृतादनिवृत्तिः तथा मृषावादादिष्वपि योज्यम् । सक्षेपतो द्वादशविधः श्रावकधर्मः संयमासंयमो व्यावृत्तिप्रवृत्तिलक्षणः । स च दर्शनमोहापोहादनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकक्षयोपशमाजायते । इतिशब्दः क्षायोपशमिकभेदेयत्ताप्रतिपादनार्थः । एतत् प्रतिपदमुद्दिष्टाः । अष्टादशेति सङ्ख्यावच्छिन्नाः । क्षायोपशमिका इति शेषभावव्युदासः। भवनलक्षणास्त्वेते भावाः प्रादुष्ष्यन्तीति ॥ ५॥
औदयिकस्त्वेकविंशतिविधान उद्दिष्टः, सोऽधुना भण्यतेसूत्रम्-गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्व
लेश्याश्चतुरुयेकैकैकषड्भेदाः ॥२-६॥ भा०-गतिश्चतुर्भेदा-नारक-तैयग्यौन-मानुष्य-देवा इति । कषायश्चतु
भेंद:-क्रोधी,मानी,मायी, लोभीति। लिङ्गं त्रिभेद-स्त्री, पुमान्, २१ भेदा मय नपुंसकमिति । मिथ्यादर्शनमकभेदं, मिथ्यादृष्टिरिति । अ
ज्ञानमेकभेदं, अज्ञानीति । असंयतत्वमेकभेदं, असंयतोऽविरत इति । असिद्धत्वमेकभेदं, असिद्ध इति । एकभेदमेकविधमिति । लेश्या: षड्भेदाः- कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजालेश्या, पालेश्या, शुक्ललेश्या । इत्येते एकविंशतिरोदयिकभावा भवन्ति ॥ ६॥ .. टी०-गतिकषायेत्यादि सूत्रम् । गत्यादीनां लेश्यान्तानां द्वन्द्वः । चतुरादीनां षडन्तानां द्वन्द्वगर्भो बहुव्रीहिः । एवमियमेकविंशतिरौदयिकभेदानामवसेया ॥ ननु च बहवोऽसगृहीताः कर्मभेदाः प्राप्नुवन्त्यौदयिकाः, त्वया च परिस ख्या क्रियते, दर्शनावरणे तावनिद्रादिपञ्चकं वेदनीयमुभयं मोहनीये हास्यादिषटकं आयुश्चतुर्विधं नामकर्म सकलम् , गतिरुपात्ता केवलं तत्रत्या, गोत्रमुभयमपि, सर्वे एते औदयिका भावाः तत् कथमेषां परिगणनेन सङ्ग्रहः ? उच्यते-अज्ञानग्रहणान्निद्रादिपञ्चकमाक्षिप्तम्, यतो ज्ञानदर्शनावरण
विर्यक् ' इति स्व-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org