________________
११२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः १
ग्रन्थः 'ज्ञानदर्शनावरणयोस्तु कृत्स्नक्षयात् केवलज्ञानदर्शने भवतः तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्ति, ' ज्ञानदर्शनयोर्विशेषसामान्यग्राहकयोर्ये आवरणे - आच्छादने तयोरेव कृत्स्नक्षयात् केवले ज्ञानदर्शने - विशेषसामान्यग्राहके उत्पद्येते, अतश्चत्वारि क्षयोपशमनिमित्तान्येकं क्षयादेव केवलं कथं पुनरत्र सहावस्थायिता घटे ||३१|| एवं मत्यादि ज्ञानपञ्चकं प्रमाणं प्रदर्श्य प्रमाणाभासा विश्चिकीर्षया आह— सूत्रम् - मतिश्रुतावघयो विपर्ययश्च ॥ १- ३२ ॥
भा०
- मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानमिति विपर्ययश्च भवति, अज्ञान चेत्यर्थः । ज्ञानविपर्ययोऽज्ञानमिति । अत्राह - तदेव ज्ञानं तदेवाऽज्ञानमिति, ननु छायातपवच्छीतोष्णवच्च तदत्यन्तविरुद्धमिति । अत्रोच्यते
टी० - मतिश्रुतावध्यो विपर्ययश्च यथोक्तलक्षणा मतिश्रुतावधयस्त्रयो ऽपि विपर्ययश्च भवत्यज्ञानं चेत्यर्थः, ज्ञानाधिकारस्य प्रकृतत्वात् ज्ञानस्य विपर्ययो विपरीतता अज्ञानं, प्रमाणाभास इतियावत् । यदा यथार्थपरिच्छेदि तदा ज्ञानं, यदा त्वयथार्थ प्रवर्तते तदा ज्ञानाभासम् । एवमुक्ते पर आह- एकस्य विरुद्धधर्मद्वयसमारोपो न युक्त इति, तदेव मत्यादित्रयं प्रमाणं तदेव चाप्रमाणमिति छायातपवद विरोधित्वादेकत्रासाम्प्रतम्, एतदाहननु छायातपवद् विरुद्धमेतत्, यो हि छायायामेवातपं मन्यते आतपे वा छायां तदत्यन्तविरुद्धं स्यात् । प्रतीतिविरोधथ तथा, यो हि शीतमुष्णं ब्रूयात् उष्णं च शीतमिति प्रत्यक्षविरुद्धं च जायते । अन्रोच्यते - न ब्रूम एकत्राधारे एतत्त्रयं ज्ञानमज्ञानं च, किन्त्वन्यत्र ज्ञानमन्यत्र चाज्ञानमिति । क तर्हि ज्ञानम् ? सम्यग्दृष्टौ योऽवबोधस्तज्ज्ञानम्, आधारान्तरे मिथ्यादृष्टौ योऽवबोधस्तदज्ञानम् । एतदाह
मत्यादीनां वि
पर्ययः ।
भा० - मिथ्यादर्शनपरिग्रहाद् विपरीत ग्राहकत्वमेतेषाम् । तस्मादज्ञानानि भवन्ति, तद् यथा-मत्यज्ञानं, श्रुताज्ञानं, विभङ्गज्ञानमिति । अवधिर्विपरीतो विभङ्ग इत्युच्यते ॥
टी० - मिथ्यादर्शनेत्यादि । मिथ्यादर्शनेन तत्त्वार्थाश्रद्धानरूपेण परिग्रहो यदा मत्यादित्रयस्य तदा विपरीतग्राहकत्वं - अयथार्थवस्तुपरिच्छेदित्वम् एतेषामिति मतिश्रुतावधीनां तस्मात् कारणात् अज्ञानानि कुत्सितान्ययथार्थपरिच्छेदीनि भवन्ति मत्यादीनि । मिथ्यादृष्टिपरिगृहीता मतिर्मत्यज्ञानं, मिथ्यादृष्टिपरिमिथ्याहशाम- गृहीतं श्रुतं श्रुतज्ञानं, मिथ्यादृष्टिपरिगृहीतोऽवधिर्विभङ्ग इति । विनङ्ग ज्ञानिता इत्यस्य चार्थ प्रकाशयति- अवधिर्भवक्षयोपशमनिमित्तो विपरीतोऽन्यथा वस्तुपरिच्छेदी विभङ्ग इति यथावस्थितवस्तुपरिच्छेदि च प्रमाणमिष्टं, न चैतत् तथेत्यतः : अप्रामाण्यं मिथ्यादृष्टि परिगृहीतानामिति । अत्राप्रामाण्ये ख्यापिते मिथ्यादृष्टिपरिगृहीतस्य मत्यादित्रयस्य चोदक आह
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org