________________
सूत्रे ३१ ]
स्वोपज्ञभाप्य–टीकालङ्कृतम्
१११
नोरत्यन्तसंयोगे " ( पाणिनिः अ० २, पा० ३, सू०५ ) इति द्वितीया, “ अव्ययीभावो वा विभक्त्यादिषु " ( पा० अ० २, पा० १ सू० ६ ) वारंवारेणोपयोगो भवतीति यावत् । एकस्मिन् समये केवलज्ञानोपयोगे वृत्ते ततोऽन्यस्मिन् केवलदर्शनोपयोग इति, एवं सर्वकालमवसेयम् । यद्यपि केचित् पण्डितम्मन्याः सूत्राण्यन्यथाकारमर्थमाचक्षते तर्कचलांनुविद्धबुद्धयो वारंवारेणोपयोगो नास्ति, तत् तु न प्रमाणयामः, यत आम्नाये भूयांसि सूत्राणि वारंवारेणो-' पयोगं प्रतिपादयन्ति-" नाणम्मि दंसणम्मिय एत्तो एगयरम्मि उवत्ता" (प्रज्ञापनायाम् )। तथा - " सव्वस्स केवलिस्सवि जुगवं दो नत्थि उवओग " ( वि० ३०९६ ) इत्यादीनि । अथैवं मन्येथाः सूत्राणामेषामन्य एवार्थोऽन्य एवव्युत्पन्नबुद्धिभिराख्यायत इत्येतदपि तु दुःश्रद्धानम्, यतः सर्वसूत्राण्यन्धपुरुषस्थानी यानि सुधिया गृहीतानि शक्नुवन्त्यर्थं ख्यापयितुं, यथा श्वेतो धावतीत्यादि, एवंविधेषु च सूत्रेष्ववश्यमाप्तसम्प्रदाय एवान्वेषणीयो भवति, स चाविच्छेदेनार्थसम्प्रदायः समस्तश्रुतधरादधिकारिणः परिष्ठवमानो मुनिपरम्परया यावदद्येत्यागमादविगानेन वारंवारेणोपयोग इति, कुतः पुनरर्थागमोडकस्मात् उपयोगवादिनः ? स्वत एव चेत् प्रेक्षितः स्वमनीषिका सिद्धान्तविरोधिनी न प्रमाणमित्यभ्युपेयते ॥ अथागमात् प्रदर्शनीयः तर्ह्यसौ तस्माद् यत्किञ्चिदेतदिति । अथ मन्यसे साकारोऽनाकार इति शब्दभेदः केवलमत्र केवलिनि अर्थस्त्वभिन्न एव, यतः सर्वमेव विशेषपरिच्छेदकं ज्ञानं केवलिनि समस्ति न दर्शनमिति, इदमपि न जाघट्यते ज्ञानावरणं भगवतः क्षीणं दर्शनावरणीयं च निरवशेषं, तत्रैकत्वे सति कोऽयमावरण भेदाभिमानो निष्प्रयोजनः ? । तथा साकारोपयोगोऽष्टधा दर्शनोपयोगचतुर्धेति, तथा ज्ञानं पञ्चधा दर्शनं चतुर्धेति, एकत्वे सति कुत इदमपि घटमानकं ? न चातीवाभिनिवेशोऽस्माकं युगपदुपयोगो मा भूदिति, वचनं न पश्यामस्तादृशम्, ऋमोपयोगार्थप्रतिपादने तु भूरि वचनमुपलभामहे, न चान्यथा जिनवचनं कर्तुं शक्यते सुविदुषाऽपीति, प्रकृतमनुत्रियते । एतस्मात् केवलज्ञानोपयोगात् केवलदर्शनोपयोगाच्च विनाऽन्यस्य उपयोगस्य अभावात् केवलिनि मत्यादिज्ञानचतुष्टयसहभावो न गम्यते । किंचान्यदित्युपपत्त्यन्तरमालम्बतेक्षायोपशमिकक्षा- भा० - क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि, क्षयादेव कितया भेदः केवलम् । तस्मान्न केवलिनः शेषाणि ज्ञानानि भवन्तीति ॥ ३१ ॥
टी० –— मत्यादीनि चत्वारि मनः पर्यायपर्यवसानानि ज्ञानानि मतिश्रुतावधिमनःपर्यायावरणीय कर्मणां क्षयोपशमावुररीकृत्य प्रवर्तन्ते, तदावरणीय कर्मक्षयोपशमनिमित्तानि, केवलं पुनः क्षयकारणमेव, तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्तीति । अन्येषां तु
१' • नुविशुद्धबुद्धयः' इति क ख - पाठः, ' तर्कबलात् तु विशुद्धबुद्धयः' इति घ-टी-पाठः । ३ सर्वस्यापि केवलिनो युगपद् द्वावुपयोगौ न स्तः ।
२ ज्ञाने दर्शने च अनयोरेकतरस्मिन् उपयुक्ताः । ४' एव व्युत्पन्न ' इति क-ख-ग-पाठः । ५ ' सन्तीति' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org