________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ द्विवचनं चासात् क्षयोपशमाभ्यामित्येतत् क्रियते-यत उभावपि तस्य समुदितौ सन्तौ निमित्तं भवतः, नैकैक इति। यतो न क्षायिक किञ्चिदवधिज्ञानं, नाप्यौपशमिक सिद्धान्ते पठितं, निमित्तं तूक्तम् । तत् पइविधं यैः प्रकारैर्व्यवस्थितं तथोपन्यस्यति
भा०-अनानुगामिकं, आनुगामिकं, हीयमानकं, वर्धमानकं, अनवस्थितं, अवधेरनानुगामि- अवस्थितमिति । तत्रानानुगामिकं यत्र क्षेत्रे स्थितस्योत्पन्न कादिका भेदाः ततः प्रच्युतस्य प्रतिपतति, प्रश्नादेशपुरुषज्ञानवत् ॥
टी०-अनानुगामिकमित्यादिना । उपन्यस्य चार्थ कथयति-तत्र तेषु षट्सु अनानुगामिकं अनुगच्छत्यवश्यमनुगामि तदेवानुगामिकमापर्वम् , अनुगमप्रयोजनं वा आनुगामिकं, तस्य प्रतिषधोऽनानुगामिकमिति । अर्थमस्य भावयति-यत्रेत्यादिना । यत्र क्षेत्रे प्रतिश्रयस्थानादौ स्थितस्येति कायोत्सर्गक्रियादिपरिणतस्य उत्पन्नम्--उद्भूतं भवति तेन चोत्पन्नेन यावत् तस्मात् स्थानान्न निर्याति तावज्जानातीत्यर्थः । ततोऽपक्रान्तस्य स्थानान्तरवर्तिनः प्रतिपतति-नश्यति । कथमिव ? उच्यते-प्रश्नादेशपुरुषज्ञानवत्। प्रश्न:पृच्छनं जीवधातुमूलानां तं प्रश्नमादिशतीति प्रश्नादेशः, प्रश्नादेशश्चासौ पुरुषश्चेति प्रश्नादेशपुरुषः, तस्य ज्ञानं तेन तुल्यमेतद् दृश्यम् , पुरुषप्रश्नादेशज्ञानवदित्येवं गमकत्वम् , अथवा प्रश्नादेशः-प्रधानपुरुषस्तनिष्ठः-तत्परायणस्तस्य ज्ञानं तद्वदिति । का पुनर्भावना ? यथा नैमित्तिकः कश्चिदादिशन् कस्मिश्चिदेव स्थाने शक्नोति संवादयितुं न सर्वत्र पृच्छयमानमर्थम् , एवं तदप्यवधिज्ञानं यत्र स्थितस्योपजातं तत्रस्थ एवोपलभते तेन नान्यत्रेति ॥
भा०-आनुगामिकं यत्र कचिदुत्पन्नं क्षेत्रान्तरगतस्यापि न प्रतिपतति, भास्करप्रकाशवत् घटरक्तभाववच ॥
टी-आनुगामिकमेतद् विपरीतमिति। यत्र कचिदाश्रयादावुत्पन्नं तस्मात् क्षेत्रान्तरगतस्यापिन प्रच्यवते, भास्करप्रकाशवत्, यथाऽऽदित्यमण्डलभवः प्रकाशः प्राच्यां दिशि प्रकाशनीयं प्राचीकशत् तथा प्रतीचीमुखचुम्बिनोऽपि सवितुस्तावत् तमवकाशमुद्द्योतयति प्रकाशो, मनागपि न क्षीयते, कुम्भरक्ततावद् वा भावनीयम् , नहि घटस्यापाकादुद्धृतस्य तडाकादिना तस्य रक्तता भ्रंशमश्नुते तद्वदानुगामिकमवधिज्ञानमिति । पूर्वदृष्टान्ते च परोक्षः प्रकाशस्तावत्वेन क्षेत्रान्तरप्राप्तस्य सवितुः संदिग्धः अतः प्रत्यक्षं घटरक्ततादृष्टान्तमुपादिताचार्यः ॥
, भा०-हीयमानकम् , असङ्ख्येयेषु द्वीपेषु समुद्रेषु पृथिवीषु विमानेषु तियेगूर्वमधो वा यदुत्पन्नं क्रमशः संक्षिप्यमार्ण प्रतिपतति आ अद्भुलासङ्ख्येयभागात् , प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत् ॥
टी०-हीयमानकं हीयते क्रमेणाल्पीभवति यत् तद्धीयमानकम् , असङ्ख्येयेषु अतिक्रान्तशीर्षप्रहेलिकागणितेष्वितियावत् । दीपा जम्बूद्वीपादयः समुद्रा लवणादयः तेषु पृथि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org