________________
सूत्रं २३ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
९७
शिक्षां अन्योपदेशरूपां तपश्च अनशनादिरूपमन्तरेण तद्वन्नारकदेवानां शिक्षां तपचान्तरेण तदवधिज्ञानं प्रादुरस्तीति ॥ २२ ॥
द्विविधोऽवधिरित्युक्तम्, तत्रैकं भेदं प्रतिपाद्य द्वितीय भेदं दर्शयन्नाह - यथोक्तमित्यादि । अथवा यथा देवनारकावधिर्भवं क्षयोपशमं चोभयमपेक्षते एवं किं क्षयोपशमोऽपि अवश्यं मनुष्यादिभवे प्राप्ते भवत्येव उत नेति १ । उच्यते-नः तत्र भवः सन्नपि कारणतयाऽभ्युपेयते, तद्भावेऽप्यभावादवधेः, किंतु क्षयोपशम एव प्राधान्येन निरूप्यते
सूत्रम् - यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ १-२३ ॥
टी. - यथोक्तनिमित्त इत्यादिना । यथा येन प्रकारेण उक्तं- उदितं निमित्तंनरतिरक्षां हेतुरस्य स यथोक्तनिमित्तः ॥ ननु भवोऽपि उदितं निमित्तं तस्येत्याधोऽवधिः शङ्कय स्वयमेनं यथोक्तं निमित्तशब्दमुच्चार्यार्थं कथयति —
भा०—यथोक्तनिमित्तः, क्षयोपशमनिमित्त इत्यर्थः । तदेतदवधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति । शेषाणामिति नारकदेवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां च । अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् । तद् यथा
टी० – यथोक्तनिमित्त इति । क उक्त एवं बुद्धिर्भवेत् । उच्यते - एवं क्षयोपशमनिमित्त इत्यर्थः, क्षयोपशमश्च क्षयोपशमौ तौ निमित्तमस्य अत एवमभिधीयते क्षयोपशमनिमित्त इति, यथा सम्यग्दर्शनादि क्षयोपशमनिमित्तं तद्वदेष इति । षडिति सङ्ख्येयप्रधानसङ्ख्याभिधायी, विकल्प इत्यनेकरूपं यत् कल्पनं यावत् स्थानै रूपैरित्यर्थः । षड् विकल्पा यस्य स षड्विकल्प इत्यवधिसम्बन्धे षड् विकल्पोऽवधिः पुल्लिङ्गः । यदा त्ववधिशब्दः प्रकृतस्य ज्ञानस्य विशेषणं भवति तदा नपुंसकलिङ्गता षड्विधमिति । एतदाह - तदेतदित्यादि । तदिति पुरस्ताद् यदुक्तं, एतदिति भवतः प्रत्यक्षं, हृदि विपरिवर्तमानत्वात्, अवधि - ज्ञानं क्षयोपशमजं, नेतरत्, षड्विधं भवति, षड्विधक्षयोपशम सद्भावादित्यर्थः । केषां षोढा ? अत आह- शेषाणाम् । अस्य चार्थ विवृणोति - शेषाणामित्य दिना । शेषाणामुपर्युक्तवर्जितानामू, ते के चोपर्युक्ताः ? देवनारकाः, तेभ्यो देवनारकेभ्यः शेषाणाम्, तद्वर्जाश्च नान्ये तिर्यङ्मनुष्यान् अन्तरेण सन्तीत्यत आह- तिर्यग्योनिजानां मनुष्याणां च, तिरथांगवादीनां योनिः - उत्पत्तिस्थानं गर्भादि तत्र जन्यन्त इति तिर्यग्योनिजाः पञ्चेन्द्रियाः पर्याप्ताः संज्ञिनो ग्राह्याः, तेषामेव तेन योगात्, असंज्ञिपञ्चेन्द्रियादीनां तु तदभावः, अतस्तेषां, मनुष्याणां च गर्भजादिविशिष्टानां न तु संमूर्च्छजानामिति । कथं पुनरेकं सत् षड्विधमिति व्यपदिश्यते ? । आह - उपाधिभेदात् । स चोपाधिः क्षयोपशमोऽनेकरूपः ज्ञानावरणीयकर्मण इत्येतद् दर्शयति-ज्ञानमवधिस्तस्यावरणीयम् - आच्छादकं भास्करस्यैवाश्रादि तस्य ज्ञानावरणीयस्थ कालान्तरकृतस्य कर्मणः क्षयोपशमाभ्यां उक्तस्वरूपाभ्यां षड्विधं भवति,
१३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org