________________
७४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ तभूयस्त्वापेक्षत्वात् परोक्षं तद् भण्यते ॥ ननु चेन्द्रियोपष्टम्भेनोपजायमानस्य ज्ञानस्य प्रत्यक्षत्वं लोके प्रथितं, तदपाकरणप्रवृत्तस्य लोकविरोधः, तथा इदं रूपं प्रत्यक्षमिति योऽयं प्रत्ययो नायं परोक्षे दृष्टः । नहि धृमादग्निमवगच्छतोऽयमग्निरिति संप्रत्ययो भवति, ततश्च स्वप्रतीतेरपि विरोध इति । उच्यते-इदं रूपं प्रत्यक्षमिति न तत्र मुख्यया वृत्त्या रूपं प्रत्यक्षं, ज्ञानमेव तु प्रत्यक्षं, तेन प्रत्यक्षेण ज्ञानेनावच्छिन्नोऽर्थः प्रत्यक्ष इत्युच्यते, तस्य युक्ता प्रत्यक्षता । किंच-न सर्वथेन्द्रियनिमित्तस्य ज्ञानस्य प्रत्यक्षता, निषेधात, यतः सर्वथा तं विषयं न परिच्छेत्तुमलं, चक्षु रूपं गृह्णात्याराद्भागवर्ति, न परमध्यभागावस्थितम्, तथा श्रोत्रादि वाच्यम्, अवध्यादित्रयं पुनः सर्वात्मनाऽवगच्छति, अतस्तस्यैव युक्ता प्रत्यक्षता। किंचन सर्वथेन्द्रियनिमित्तस्य ज्ञानस्य प्रत्यक्षव्यपदेशो निषिध्यते, यतोऽयं निश्चयमङ्गीकृत्य भाष्यकृता प्रत्यक्षव्यपदेशो निषिध्यते, व्यवहारात्विष्यत एव । यतोऽभिहितं नन्द्याम् (सू० २-३) “तं समासओ दुविहं पण्णत्तं, (तं. पच्चक्खं च परोक्खं च । से किं तं पञ्चक्खं ? पञ्चक्खं दुविहं पण्णत्तं ) तं०-इन्दियपञ्चक्खं नोइन्दियपञ्चक्खं च" इन्द्रियप्रत्यक्षमिति ब्रुवता व्यवहारप्रत्यक्षता भवति, भाष्यकारस्यापि योगविभागात् तस्येन्द्रियजस्य ज्ञानस्य सिद्धा प्रत्यक्षता, स चैवं योगो विभजनीयः-आये परोक्षं निश्चयतः ततः प्रत्यक्षं, प्रत्यक्षं चाये व्यवहारः, ततोऽन्यत् अवध्यादि एकान्तेनैव प्रत्यक्षमिति ॥ ११ ॥ एवं परोक्षं प्रदश्य प्राक् प्रतिज्ञातं प्रत्यक्षं प्रमाणं कथयन्नाह
सूत्रम्-प्रत्यक्षमन्यत् ॥ १-१२॥ टी०-अन्यदिति चोक्ते जायते विचारणा-कुतोऽन्यदिति ? अवधीकृतमेव विच्छेदकारणं ख्यापयन् “ते
भा०–मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तत् प्रत्यक्ष प्रमाणं भवति। कुतः । अतीन्द्रियत्वात् । प्रमीयन्तेऽर्थोस्तैरिति प्रमाणानि । अत्राह-इह अवधारितं-द्वे एव प्रमाणे प्रत्यक्षपरोक्षे इति ॥ टी-मतिश्रुताभ्यामिति । मतिज्ञानश्रुतज्ञानाभ्यां यदन्यत् , तस्य चैकैकस्य प्रत्य
क्षतांप्रकाशयन्नाह-त्रिविधमिति । उक्तेऽपि चैतस्मिन् किं तत् त्रिविधमिअवध्यादेः
त्याह-ज्ञानं, प्रत्यक्षं प्रमाणं भवतीति । प्रत्यक्षं भवतीत्येतद् विधीयप्रत्यक्षता
तेत्र,शेषस्यानुवाद इति। कुत इति च प्रश्नयितुरभिप्रायोऽयम्-यद्यान्तरनिमित्तं क्षयोपशमः प्रत्यक्षतायाः कारणभावं प्रतिपद्यते स सर्वेषां मत्यादीनां साधारणः क्षयोपशमः कारणमस्तीति सर्वप्रत्यक्षत्वप्रसङ्गः, अथ प्रत्यक्षतायाः पृथग् निमित्तं तदुच्यतामिति, इतरस्तु असाधारणं त्रयाणां प्रत्यक्षतायाः प्रकटीकुर्वन् निमित्तमाह-अतीन्द्रियत्वादिति । अतिका
१'निषेध्यते' इति ख-पाठः। २ तत् समासतो द्विविधं प्रज्ञप्तं, (तद्यथा-प्रत्यक्षं च परोक्षं च। अथ किं तत प्रत्यक्षम् ? प्रत्यक्ष द्विविधं प्रज्ञप्तम् ) तद्यथा-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org