________________
सूत्रं ११]
स्वोपज्ञभाष्य-टीकालङ्कृतम् अवग्रहेहयोरनिश्चितत्वान्न समस्ति प्रमाणम् । स चापायः सद्व्यानुगतो यदि न भवति
तन्मिथ्यादृष्टेरिवाशुद्धदलिककलुषितः, अतो योऽपायः सद्व्यानुप्रामाण्यम् वर्ती स प्रमाणं मतिभेदः। यदा तर्हि दर्शनसप्तकं क्षीणं भवति
तदा सद्व्याभावे कथं प्रमाणता श्रेणिकाद्यपायांशस्य ? उच्यतेसद्व्यतयेत्यनेनार्थत इदं कथ्यते-सम्यग्दृष्टेर्योऽपायांश इति । भवति चासौ सम्यग्
दृष्टेरपायः। अथवा एकशेषोऽत्र द्रष्टव्यः, अपायश्चापायश्चापायौ सद्व्यं अपायसद्रव्ये परोक्षता ५ च सदद्रव्यं च सद्रव्ये अपायौ च सद्रव्ये चापायसद्व्याणि तेपां
भावस्तयेति। इदमुक्तं भवति-अपायसद्व्यानुगतो यः अक्षीणदर्शनससकस्य स परिगृहीतः, एकेन अपायसद्रव्यशब्देन, तथा द्वितीयेनापायो यः सदद्रव्यं शोभनं द्रव्यं, कश्चापायः सद्व्यम् ? यः क्षीणदर्शनसप्तकस्य भवति । एतेनैतदुक्तं भवति-सम्यग्दर्शनिनः क्षीणाक्षीणदर्शनसप्तकस्य योऽपायो मतिज्ञानं तत् परोक्षं प्रमाणम् । सविकल्पमिति निमित्तापेक्षत्वाद् धूमादग्निज्ञानवदिति, एवं श्रुतज्ञानस्याप्यपायांशः प्रमाणयितव्यः । सम्प्रति निमित्तापेक्षत्वादित्यस्य यो व्यभिचारः पुनः पुरस्तादवाचि तत्परिजिहीषयेदमाह-तदिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते इत्यनेन । तदिति मतिज्ञानम्, इन्द्रियाणि-श्रोत्रादीनि अनिन्द्रियं-मनः ओघज्ञानं च तानि निमित्तं-कारणं यस्य ज्ञानस्य तदिन्द्रियानिन्द्रियनिमित्तम्, न हीन्द्रियाण्यनिन्द्रियं च विरहय्य तस्य ज्ञानस्य सम्भवोऽस्तीति, ततश्च हेतुरेवंविधो ज्ञा(जा)तः-इन्द्रियानिन्द्रियनिमित्तत्वादिति। विशिष्टमेव निमित्तमिन्द्रियानिन्द्रियाख्यमुररीकृत्य निमित्तापेक्षत्वादिति मया प्रागभ्यधायि, नास्त्यतो व्यभिचारः। श्रुतज्ञानस्या पीन्द्रियानिन्द्रियनिमित्ततैव, किंतु अन्यथापि निमित्तं कथ्यते, तदाह-तत्पूर्वकत्वात् । तदिति मतिज्ञानं पूर्व-पूरकं पालकं यस्य तत् तत्पूर्वकं तद्भावस्तत्पूर्वकत्वं तस्मात् तत्पूर्वकत्वात्, यावन्मतिस्तावत् तद् भवति, न त्वीदृश्यवस्थाऽस्ति यत्र तन्मतिज्ञानेन विना प्रादुःष्यात, अतस्तन्मतिज्ञानं श्रुतज्ञानस्य पालकं भवतीतिकृत्वा मतिज्ञानमेव तस्यात्मलाभनिमित्तं भवति, तस्मिन् सति तस्य भवनात्, अतः श्रुतं मतिं निमित्तीकृत्य
प्रवर्तमानमिन्द्रियानिन्द्रियनिमित्तं सत् कथं प्रत्यक्षव्यपदेशं लभेत ? श्रुतस्य परोक्षता तथा परोपदेशजत्वाच । श्रुतज्ञानं परोक्षं, परः-तीर्थकरादिस्तस्यो
पदेशः, उपदिश्यते उच्चार्यते इत्युपदेशः-शब्दस्तस्मात् परोपदेशात्-तीर्थकरादिशब्दश्रवणादुपजायते यत् तदिन्द्रियानिन्द्रियनिमित्तं श्रुतज्ञानं, तत्पूर्वकत्वात् परोपदेशादिति च, अनेन निमित्तभूयस्त्वं ख्यापितम् । यतः श्रुतज्ञानमुपजायमानं स्वतः प्रत्येकवुद्धादीनां मनसि सति मतिज्ञाने च सति समस्ति, अतो निमित्तद्वयमाश्रितं भवति । तथा यस्यापूवमेवेदानी प्रादुरस्ति तस्य सति परोपदेशे सत्यां मतो सत्सु चेन्द्रियानिन्द्रियेदेति, अतो निमि
.
१ 'श्रुतमतिं ' इति क-ख-पाठः । २ ‘श्रितं च ' इति ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org