________________
भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक
आराधनां समाराध्य विधिना स चतुर्विधाम् । समाधिमरणं प्राप्य भद्रबाहुर्दिवं ययौ ॥४४॥ सुभिक्षे सति संजाते सर्वसंघसमन्वितः।। दर्शनज्ञानचारित्रत्रयं सम्यक्प्रपाल्य च ॥४५।। भद्रबाहुगुरोः शिष्यो विशाखाचार्यनामकः । मध्यदेशं स संप्राप दक्षिणापथदेशतः ॥४६॥ रामिल्कः स्थविरो योगो मद्राचार्योऽप्यमी त्रयः। ये सिन्धुविषये याताः काले दुभिक्षनामनि ॥४७॥ पानान्नभोजनहींने काले लोकस्य भीषणे । आगत्य सहसा प्रोचुरिदं ते जनसंनिधौ ॥४८॥ वैदेशिकजनःस्थैः कृतकोलाहलस्वनैः । पितापुत्रादयो लोका भोक्तुमन्नं न लेभिरे ॥४९॥ लोको निजकुटुम्बन बुभुक्षाग्रस्तचेतसः । साधयित्वान्नमाबालं तद्भयान्निशि वल्भते ॥५०॥ . भवन्तोऽपि समादाय निशिपात्राणि मद्गृहात् । नूनं कृत्वाऽन्नमेतेषु गत्वा देशिकतो भयात् ॥५१॥ स्वश्रावकगृहे पूते भूयो विश्रब्धमानसाः । साधवो हि दिने जाते कुरुध्वं भोजनं पुनः ॥५२॥ तल्लोकवचनरिष्टर्भोजनं प्रीतमानसः । अवेन विधिनाऽऽचार्यः प्रतिपन्नमशेषतः ॥५३॥ अन्यदैको मुनिः कोऽपि निर्ग्रन्थः क्षीणविग्रहः । भिक्षापात्रं करे कृत्वा विवेश श्रावकगृहम् ॥५४॥ तत्रैका श्राविका मुग्धाऽभिनवा गुर्विणो तदा । अन्धकारे मुनि दृष्ट्वा तत्र सा गर्भमागतम् ॥५५॥ तद्दर्शनभयात् तस्याः स गर्भः पतितो द्रुतम् । । दृष्ट्वाऽमुं श्रावकाः प्राप्य यतीशानिदमूचिरे ॥५६॥ विनष्टः साधवः कालः प्रायश्चित्तं विधाय च । काले हि सुस्थतां प्राप्ते भूयस्तपसि तिष्ठत ॥५७॥ यावन्न शोभनः कालो जायते साधवः स्फुटम् । तावच वामहस्तेन पुरः कृत्वाऽर्धफारकम् ॥५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org