SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४० श्रावकधर्मप्रदीप त्याज्येत्यादि:- तात्पर्यमेतत् -स्त्रीपरिग्रहः रागपरिणामेनैव भवति। रागादयस्तु स्वात्मविकारा एव। यतः स्वात्मस्वरूपविरोधिनश्चेते रागादयः। एतैरेव संसारस्य परम्परा प्रवर्तते, दुःखपरम्परा चोत्पद्यते। शुना कृतमस्थिचर्वणं यथा तस्य मुखादेव रक्तस्रावणमुत्पाद्य रक्तस्वादं जनयति, तथैव स्त्रीपरिग्रहणेऽपि पुंसः पुरुषग्रहणमपि स्त्रियः स्ववीर्यरजःप्रस्रवणाभ्यां स्वस्वशारीरिकशक्तिनाशकाभ्यां स्वात्मपावित्र्यरोधकाभ्यां सङ्गमस्वादं जनयति। इत्येवं प्रकारेण स्वशरीरनाशमेव सङ्गमसुखम्मन्यमानास्तु मोहिनस्स्वात्महिताद् दूरतरमेव प्रयान्ति। न तेषां कल्याणम्भवति। कामदेवनया एवं स्त्रीपुमांसौ परस्परम् इच्छतः। वेदना तु मोहकर्मोदया। कर्मोदयात् क्रियमाणा क्रिया नियमादेव बन्धस्य कारणम्भवति कर्मबन्धस्तु संसारदुःखस्य मूलमिति। लौकिकदृष्ट्याऽपि कामक्रिया निर्लज्जताया एव लक्षणं प्रोच्यते न हि कश्चित् लौकिकोऽपि सन्नागरिकलोकः प्रत्यक्षपूर्वकमेव कामक्रियां कर्तुं समर्थोऽस्ति। यत्करणे खलु साधारणजनानामपि लज्जा वर्तते तत्खलु पापमेवेति सुनिश्चितम् । कामवेदनां जेतुमसमर्था अपि लौकिकजनाः परिगृह्यापि पत्नी लज्जापूर्वकमेव प्रच्छन्नरूपेणेच्छन्ति। जानन्ति ते सर्वेऽपि सन्तानोत्पत्त्या यदेतानि कामफलानि, तथापि न तत्क्रियां प्रकटरूपेण कर्तुं समर्था भवन्ति। कुर्वन्तोऽपि परस्त्रीपरिग्रहं वेश्यासङ्गमञ्च केचित् मोहिनो न निर्लज्जाः सेवन्ते किन्तु लज्जयैव प्रच्छन्नरूपेण सेवन्ते। सिद्धमेतेन यत् कामस्य कथाऽपि पापमेव। तत्कथाकारकाणामपि लोके भर्त्सना भवति यल्लज्जारहिताचैते विटाः। कामवासनया एव सन्तानपरम्परा प्रवर्तते, सन्तानपरम्परा च संसारः, संसारस्तु दुःखस्य हेतुर्भवति प्राणिनां, इति स्त्रीपरिग्रह एव पापमिति सिद्धम् । एतज्ज्ञात्वा स्वस्त्रीमपि परित्यज्य स्वात्मन्येव रमन्ते योगिनस्त एव धन्याः निष्पापास्ते सद्य एव निर्वान्ति दुःखैर्मुच्यन्ते ते। ये किल हतबलाः मानसिकदौर्बल्येन कामाग्निना दग्धास्तैरपि विचार्य स्वस्त्रीपरिग्रह एव कार्यः। कदाचित् स्वप्नेऽपि परवनितासङ्गमेच्छा न कर्त्तव्या। वेश्यासङ्गमस्तु दूरत एव परिहरणीयः। परस्त्रीसङ्गमेन स्वयमपि चौर इव अशान्तो भवति निन्द्यो भवति, दण्डनीयो भवति राज्यापराधी च गण्यतेऽसौ, व्यभिचारिणोऽवैधसन्तानोत्पत्तिर्भवति। इत्येतैरपराधैर्महदुःखोत्पादकंतत् । स्वस्याप्यशान्तेः कारणं परस्यापि। इत्येवंप्रकारेण स्वपरात्मशान्त्यै परस्त्रीसङ्गमं परित्यज्य स्वस्त्रीमानसन्तुष्टस्य श्रावकस्य चतुर्थं ब्रह्मचर्याणुव्रतम्भवति।१००! __ स्त्री का ग्रहण रागपरिणामों से होता है। रागादि परिणाम आत्मा के विकार भाव हैं। आत्मस्वभाव की प्राप्ति में ये विध्नकारक हैं। इनसे संसार की और दुःख की परम्परा बढ़ती है। काम-भोग के द्वारा सुखानुभव करनेवाले मोही स्त्री-पुरुष कुत्ते के द्वारा किए गए हड्डी के चर्वण के तुल्य अपने ही रजवीर्य के प्रस्रवण से, जो उनके शारीरिक बल का नाशक है और आत्मपावित्र्यका घातक है, अपने को सुखी मानते हैं। जैसे कुत्ते को यह ज्ञात नहीं है जो सूखे हाड़ों से यह रक्त नहीं आता जिसे चाटकर मैं प्रसन्न हो रहा हूँ, अपि तु यह मेरे ही मुख से निकलनेवाले रक्त का स्वाद है जो हड्डी के संघर्ष से क्षत-विक्षत हो निकलने लगा है, उसी प्रकार कामवेदना से पीड़ित स्त्री-पुरुष परस्पर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004002
Book TitleShravak Dharm Pradip
Original Sutra AuthorN/A
AuthorJaganmohanlal Shastri
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1997
Total Pages352
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy