________________
नैष्ठिकाचार
१२९
के अनुसार और पद के अनुसार प्रत्येक आत्महितैषी को अहिंसा का पालन करना चाहिए जिससे संसार में सुख और शान्ति की वृद्धि हो।९१।९२ । प्रश्न:- हिंसायाः कति भेदाः को सन्ति मे भो गुरो! वद।
सर्वेषां सुखसिद्ध्यर्थं कथ्यन्ते क्रमतोऽद्य भोः। हिंसा के कितने भेद हैं? हे गुरो! कृपा कर कहें। इस प्रश्न के उत्तर में श्री गुरु कहते हैं- हे भव्य! सबके सुख पूर्वक ज्ञान के लिए मैं क्रमशः कहता हूँ सुनो
(उपजातिः) कृष्यादिवृत्तौ विहिता प्रवृत्तिरुद्योगिहिंसा कथितात्महन्त्री । आरम्भिहिंसाऽखिलपञ्चसूनकार्ये प्रवृत्तिर्गृहिणां व्यथादा ।।९३।। स्वर्मोक्षमार्गादिकरक्षणार्थं नरत्वधर्मादिकशिक्षणार्थं । जगद्धितार्थं क्रियते गृहस्थैर्विरोधिहिंसा कथिता मुनीन्द्रैः ।।९४।। रागादिभावादथवा प्रमादाच्चित्ताक्षतृप्त्यै क्रियते जनैर्या । त्रासादिहिंसाखिलदुःखदात्री संकल्पिहिंसा भवबन्धिनी सा ।।१५।। आदौ प्रगीता त्रिविधाऽपि हिंसाऽत्याज्याभवेन्मध्यमश्रावकैर्हि । रोगादिशान्त्यै कटुकौषधीव संकल्पिहिंसा न कदापि कार्या ।।९६।।
कृष्यादीत्यादि:- तात्पर्यमेतत् चतुर्विधा हिंसा भवति-(१) उद्योगिहिंसा (२) आरम्भिहिंसा (३) विरोधिहिंसा (४) सङ्कल्पिहिंसा च। स्वरूपञ्चासाम्-कृष्यादिना सेवया शिल्पेन वाणिज्येन लेखनादिकलया प्रजासंरक्षार्थ शस्त्रेण वा स्वाजीविकासम्पादनं उद्योगः स्यात्। उद्योगकरणे तु हिंसा भवत्येव। सा हिंसा गृहस्थधर्माराधकैः परिहर्तुमशक्या भवति सा उद्योगिहिंसेति। द्वितीया हिंसा किल गृहस्थारंभेषु कार्येषु भवति। भोजनार्थं अग्निप्रज्वालने जलादीनां संग्रहे वनस्पतिच्छेदने गृहसम्प्रमार्जने अन्नादिशोधने वस्त्रप्रक्षालने स्नानादिकर्मणि रोगादीनामुपचारे बालानां परिपालने देवादिसत्कृतौ दानादिकार्ये दीनानामुद्धरणे गृहनिर्माणादिषु अवश्यंभाविषु गार्हस्थिककार्येषु जीवसंरक्षणोद्योगेऽपि हिंसा सञ्जायते सा आरम्भिहिंसेति। तृतीया तु विरोधिहिंसा कथ्यते, तत्स्वरूपञ्चैतत्स्वर्मोक्षप्रदायकेषु धर्मकार्येषु विध्नकारकाणामेव रक्षा यदि धर्मः स्यात्तदा धर्मस्यैव लोपः स्यात्।अतस्तद्ररक्षणार्थं दुर्जनानां मानवधर्मशिक्षणार्थं तथा जगद्धिताय शान्तिवर्धनार्थं या हिंसा भवति सा मुनीन्द्रैः विरोधिहिंसा कथिता। चतुर्थी हिंसा तु सर्वथा सर्वप्रयत्नेन परिहार्या। सा च स्यात् सङ्कल्पिहिंसा। तत्स्वरूपं यथा-चित्ताक्षतृप्त्यै मनोरञ्जनायरागादिभावादथवा प्रमादात् मांसादिना रसनादीन्द्रियपरितृप्त्यर्थं च जनैर्या त्रसादिहिंसा क्रियते सा संकल्पिहिंसा कथ्यते। सा हिंसा संसारदुःखपरम्परायाः हेतुः। एषा कदापि न कार्या श्रावकैरपि किं पुनरन्यैः। एतदतिरिक्तास्तिस्रः रोगादिसम्पन्ने कटुकौषधीप्रयोगवत् त्याज्या अप्यपरिहार्याः सन्ति।९३।९४।९५।९६।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org