________________
नैष्ठिकाचार
धन का धनी होकर अनन्त सुख का पात्र होता है और संसार बन्धन से छूट जाता है। अतएव द्यूत सर्व प्रयत्नों द्वारा छोड़ देने योग्य है । ७८ । ७९ ।
प्रश्न: :- का मांसभक्षणे हानिस्तद्बोधाय गुरो वद ।
हे गुरुदेव! मांस भक्षण करने में क्या हानि है। इस विषय को समझाइए
(अनुष्टुप्)
न मांसभक्षिणां चित्ते दयाधर्मो भवेत्किल । हेयोपादेयबोधोऽपि न स्यात्सद्विश्वशान्तिदः ।। ८० ।। ज्ञात्वेति दुःखदं निन्द्यं त्यक्त्वा हि मांसभक्षणम् । कुर्वन्त्वात्महितं सन्तो धर्मज्ञा धर्मनायकाः ।। ८१ ।।
११५
न मांसभक्षणामित्यादि : - भावार्थस्त्वयम्, ये परमांसं भक्षयन्ति तेषां चित्ते दयाधर्मो किल न भवति। मांसस्योत्पत्तिस्तु प्राणिनां शरीरत एव भवति । न तु मांसं वृक्षात् प्राप्यते न भूमितस्समुद्भवति न चाकाशात्पतति । मांसार्थिनां परशरीरघातस्तु अत्यावश्यकोऽस्ति अन्यथा मांसप्राप्तिर्न स्यात्। दयावान्पुरुषस्तु परशरीरस्य रोममात्रमपि दुःखीकर्तुमसमर्थो भवति, कथं तर्हि परशरीरं घातयेत्सः ? सर्वत्र जगति शान्तिप्रदं सम्यग्ज्ञानमस्ति । सम्यग्ज्ञानत एव हेयस्य उपादेयस्य चार्थस्य विवेको भवति। हेये हेयतया उपादेये च उपादेयतया यद्विवेकः स्यात् तेन विवेकेनैव विश्वेऽस्मिन् शान्तिर्भवितुमर्हति, नन्यथा। मांसाशिनस्तु न स विवेकः स्यात् । इत्येवं सम्यगवबुध्य यः निन्दनीयं दुःखप्रदं तन्मांसं न भक्षयति तस्यैवात्महितं सदा स्यात् ।
धर्मस्याधिष्ठातारः सज्जनाः धर्मस्वरूपबोधकाश्च आत्महितं कुर्वन्तु हेयोपादेयविवेकपूर्वकं । मांसभक्षणं तु त्याज्यमेव। सदा विचारणीयमेतत् यत् मांसभक्षणे हिंसामहापापस्य चरमसीमाऽस्ति । न केवलं तत्प्राणिन एव वधस्संजायते यस्य मांसं भुज्यते, अपि तु मांसे तज्जातीनां पञ्चेन्द्रियाणां जीवानां निगोतसंज्ञकानामपि शरीरे तेषामुत्पत्तिर्भवत्येव । पक्वमपि पचदपि अपचदपि अपक्वमपि मांसं निगोतानां सदैव योनिः । तद्भक्षणे तु तेषां नियता हिंसा संजायते ।
न चान्नादिवत् प्राण्यङ्गत्वात् तद्भक्षणे का हानिरिति प्रश्न उपयुज्यते । त्रससंज्ञकानां प्राणिनां शरीरस्थितानामेव मांससंज्ञा चास्ति । तत्रैव निगोतानामुत्पत्तिस्संजायते न तु अन्नादिषु स्थावरसंज्ञकेषु, तेषामेकेन्द्रियत्वात्। तस्य शरीरस्य स एव स्वामी । तस्यैवेकस्यैकेन्द्रियस्य तत्र हिंसा भवति नान्यस्य । कन्दादिषु अनन्तकायिकेषु साधारणवनस्पतिषु तु अनन्तानामेकेन्द्रियाणां निगोदसंज्ञकानामुत्पत्तिः स्यात्। तद्भक्षणे तु तेषां मरणं नियतमस्ति । तस्मात्कारणात् सप्रतिष्ठितानां वनस्पतीनां भक्षणं त्याज्यमेव दयावद्भिः श्रावकैः । पक्वावस्थायान्तु वनस्पतीनां प्रासुकत्वं स्यादेव । तदा तच्छरीरं खलु निर्जीवमेव भवति। तद्भक्षणें न तदतिरिक्तानां प्राणिनां वधः स्यात् । न तत्र सततं मृतमांसवत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org