________________
द्वात्रिंशिका, २०
165
वाचिकित्सितमानाध्वमणिर।गादिभक्तिवत् । नानात्वैक्योभयानुक्तिर्विषमं सममर्थतः ॥ ३ ॥ प्रमाणान्यनुवर्तन्ते विषये सर्ववादिनाम् । संज्ञाभिप्रायभेदात्तु विवदन्ति तपस्विनः ॥ ४ ॥ न यथार्थपरिज्ञानाहोषशान्तिन वान्यथा । प्रकोपसमसामान्याव्यभिचाराच्च तद्वताम् ॥ ५॥ येन दोषा निरुध्यन्ते ज्ञानेनाचरितेन वा। स सोऽभ्युपायस्तच्छान्तावनासक्तमवेद्यवत् ॥ ६ ॥ यथाप्रकारा यावन्तः संसारावेशहेतवः । तावन्तस्तद्विपर्यासा निर्वाणावाप्तिहेतवः ॥७॥ सामान्यं सर्वसत्त्वानामवश्यं जन्मकारणम् । शरीरेन्द्रियभोगानामविशिष्टं विशिष्यते ॥ ८॥ विकल्पप्रभवं जन्म सामान्यं नातिवर्तते । हेतावपचिते शेषं कि परिज्ञाय वा न वा ॥९॥ गुरुलाघवसंदिग्धविपरीताः प्रतिक्रियाः। लघ्वसंदिग्धविज्ञानं त्वास्यद्विष्टस्य सिध्यति ॥ १० ॥ द्रव्यसत्त्वादिनानात्वं नानेति सममात्मनः । विषयेन्द्रियचेतस्यमनेनाहमनीत वां ॥ ११ ॥ बौद्धमध्रवमद्रव्यसांख्यं काणादमन्यथा । लोकः पुरुष इत्येतदवक्तव्यं शरीरवत् ॥ १२ ॥ निमित्तेश्वरकारः प्रकाशनपशिल्पिवत् । यथेष्टसाधनोत्कर्षविशेषापायवृत्तयः ॥ १३ ॥ स्वभावो ऽर्थो ऽन्तराभावा नियमा व्यभिचारतः। इष्टतो ऽन्यदनेनोक्ता देशकालसमाधयः ॥ १४ ॥ लक्ष्यलक्षणयोरेवं देशधर्मविकल्पतः । सदादिप्रतिभेदाच्च निह्नवप्रतियोजनाः ॥ १५ ॥ चैतन्यबुद्धयोर्विच्छेदः परिणामेष्वसंश्रयात् । न विकल्पान्तरं भोक्तुरनेनोक्तं सुखादिवत् ॥ १६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org