________________
166
द्वात्रिंशिका, २०
शरीरविभुता तुल्यमानन्त्यगुणदोषतः । संसारप्राप्त्यभिव्यक्तिर्विकल्पाः कारणात्मनः ॥ १७ ॥ गुणप्रचयसंस्कारवृत्तयः कर्मवृत्तयः। अनाद्यनन्तरावश्ययथाचेतरयोगतः ॥ १८ ॥ भूतप्रत्येकसंयोगसामान्यार्थान्तरात्मकम् । पञ्चधा बहुधा वापि कार्यादेकादिवेन्द्रियम् ॥ १९ ॥ जातिप्रत्ययसामान्यचरस्थिरचरन्मनः । उभयं विभवा देहलोकयोरनुगामि च ॥ २० ॥ रूपादिमानं द्रव्यं च पिण्ड एक विकल्पवान् । समस्तव्यस्तवृत्तिभ्यामर्थपरिणतेरपि ॥ २१ ॥ सदसत्सदसन्नेति कार्यकारणसंभवः । अनित्यनित्यशून्यत्वे शेषमित्युपपादितम् ॥ २२ ॥ अवस्थितं जगत्सत्त्वाद्धात्वसत्प्रक्रियात्मकम् । धर्माधर्मस्वभावेष्टिपुरुषार्थनिमित्ततः ॥ २३ ॥ समग्रविकलादेशत्यागाभिप्रायतत्कथा । सामान्याव्यासतः शैक्ष्यविपक्षाचार्यशक्तितः ॥ २४ ॥ द्वीपवेलोदधिव्याससंख्याभोगविभूतयः । स्वर्गापायानुभागाश्च सनिमित्ता यथेष्टतः ॥ २५ ॥ ज्ञानाचारविशेषाभ्यामाचाराङ्क्रियते जनः । स नात्युत्तानगम्भीरः सुखदुःखात्ययो हितः ॥ २६ ॥ दृष्टान्तश्रविकर्लोकः परिपक्तिशुभाशुभैः। सुखार्थसंशयप्राप्तिप्रतिषेधमहाफलैः ॥ २७ ॥ ज्ञानात्कृत्स्नेष्टधर्मात्मपरमेश्वरतः शिवम् । कर्मोपयोगवैराग्यं धामप्राप्तिश्च योगतः ॥ २८ ॥ पृथक् सहाविनिर्भागैर्दयावैराग्यसंविदाम् । ऐश्वर्यमोक्षोपशमसमावेशविकल्पतः ॥ २९ ॥ आगमाभ्युदयज्ञानयोगाध्याहारधारणा । भावनाप्राणसंरोधकृच्छ्रयत्नव्रतानि च ॥ ३० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org