SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 164 द्वात्रिंशिका, १९-२० स्थित्यन्तमन्यवैफल्याद्यथार्थप्रतिबोधकम् । तदौदारिकदेहाभ्यामन्यच्चातिप्रसंगतः ॥ २२ ॥ निर्ग्रन्थसंयतारागान्यनुबन्धस्थितिक्रमात् । द्विविधा एव सामर्थ्यादनन्ता वापि सिद्धवत् ॥ २३ ॥ प्रयोगविश्रसाकर्मतदभावस्थितिस्तथा। लोकानुभाववृत्तान्तः किं धर्माधर्मयोः फलम् ॥ २४ ॥ आकाशमवगाहाय तदनन्या दिगन्यथा। तावप्येवमनुच्छेदात्ताभ्यां वान्यमुदाहृतम् ॥ २५ ॥ प्रकाशवदनिष्टं स्यात्साध्ये नार्थस्तु नः श्रमः। जीवपुद्गलयोरेव परिशुद्धः परिग्रहः ॥ २६ ॥ इन्द्रियाण्यात्मलिङ्गानि त्वगादिनियमः पुनः । निकामविषया व्याला जिनाश्चैवमतीन्द्रियाः ॥ २७ ॥ बुद्धयापोहतमः सत्वं जातु गव्ये न युज्यते । तोत्रमोहानुबन्धस्तु स्यात्कश्चित्कस्यचित्क्वचित् ॥ २८ ॥ सत्त्वोच्छेदभयं तुल्यमनक्ते ऽप्यपवर्गतः । न च जन्ममहादोषमानन्त्यात्तु न बध्यते ॥ २९ ॥ नेन्धनानन्त्यतो वह्निश्चीयते नावचीयते । तन्मात्रं वा तथान्योन्यगतयः स्कन्धपुद्गलाः ॥ ३० ॥ . प्रतीत्य प्रतिसंख्याय द्रव्यव्यञ्जनपर्ययात् । समग्रविकलादेशनिषेधाभ्यां च साधयेत् ॥ ३१ ॥ ॥ इति निश्चयद्वात्रिंशिकैकोनविंशतितमी ॥ १९ ।। [२०] उत्पाद विगमध्रौव्यद्रव्यपर्यायसंग्रहम् । कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनम् ॥१॥ अपायापोहतो ऽन्योन्यं हन्यतो वा तदेव वा। ग्रन्थार्थः स्वपरान्वर्थो विध्युपायविकल्पतः ॥ २ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy