________________
द्वात्रिंशिका, १९
163
चक्षुर्दर्शन विज्ञानं परमाण्वौक्ष्ण्यमोक्षवत् । तदावरणमित्येकं न वा कार्यविशेषतः ॥ ८॥ अर्थव्यञ्जनयोरेवमर्थस्तु स्मृतिचक्षुषोः । सर्वोपयोगद्वैविध्यमनेनोक्तमनक्षरम् ॥ ९॥ प्रकाशमनसोश्चक्षुस्तुल्यमाप्तगतार्थवत् । विकृष्टतरयोर्व्यक्तिर्गम्यते चार्थशक्तितः ॥ १० ॥ परस्परस्पृष्टगतिर्भावनापचया ध्वनिः । बद्धस्पृष्टगमद्वयादिस्नेहरौक्ष्यातिशायनात् ॥११ ।। ।। वैयर्थ्यातिप्रसङ्गाभ्यां न मत्यभ्यधिकं श्रुतम् । सर्वेभ्यः केवलं चक्षुस्तमःक्रमविवेकवत् ॥ १२ ॥ नश्यन्ति विषयाख्याते योक्तव्या दोषता न चेत । त्रितयानियतादेकसामान्याद्वा बहुष्वपि ॥ १३ ॥ दोषपक्तिर्मतिज्ञानान्न किंचिदपि केवलात् । तमःप्रवया निःशेषविशुद्धिः फलमेव तत् (?) ॥ १४ ॥ समग्रविषयं ज्ञानमवश्यं यस्य कस्यचित् । तस्य वृत्त्यन्तरापत्तेर्नान्यदावरणं क्षयात् ॥ १५ ॥ वक्षाद्यालोकवत्कृत्स्नं स्तोकाख्यानमनेकधा । अत्यन्तानुपलब्धिर्वा विशिष्टे ज्ञानदर्शने ॥ १६ ॥ प्रार्थनाप्रतिघाताभ्यां वेद्यन्ते द्वीन्द्रियादयः । मनःपर्यायविज्ञानं युक्तं तेषु न वान्यथा ॥ १७ ॥ निमित्तमन्तरायत्तं चतुष्कमपरं फलम् । मनुष्यतिर्यग्भवयोः कर्मायुष्कपुरःसरम् ॥ १८ ॥ निश्चितं मोहवेद्ये वा प्रसंगानुपपत्तितः।। एकं नैकानुभावं वा बीजाद्यर्थप्रकारवत् ॥ १९ ॥ परिणामफलं कर्म परिणामस्तदात्मकः । तयोरन्योन्यसादृश्यं युक्तं नानेकधर्मतः ॥ २० ॥ आयुःकालफलं सौम्यः परिणामान्न विद्यते । गत्याद्यर्थपृथग्नाम मूलोत्तरनिबन्धवत् ॥ २१ ॥ ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org