________________
162
द्वात्रिंशिका, १८-१९ अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदोणे शमनीयमिव ज्वरे ॥ २८॥ यदनासेवितं यस्य सेवितं वा स साधयेत् । तच्छेषानुपरोधेन प्रतिरूपार्पितं तपः ॥ २९॥ यदुत्सृष्टमयत्नेन पुनरेष्यं प्रयत्नतः । तत्साधनं वा तादृक्षं न हि सोपधयो बुधाः ॥ ३०॥ नातिकृच्छ्रतपःसक्ता मनश्छागवदुत्सृजेत् । कुशीलान् वा विदग्धांश्च तीर्थं तच्छेषपालनम् ॥ ३१॥ यावदुद्वेजते दुःखानिर्वाणं चाभिमन्यते । तावन्मोहसुखारूढाः स्वयं यास्यन्त्यतःपरम् ॥ ३२ ॥
॥ इत्यष्टादशी द्वात्रिंशिका ॥ १८ ॥
ज्ञानदर्शनचारित्र्याण्युपायः शिवहेतवः । अन्योन्यप्रतिपक्षत्वाच्छुद्धावगमशक्तयः ॥ १॥ ज्ञानं देहादिविषयं व्यक्तिमात्रमविग्रहः । मनसः संशयापायस्मृतिदर्शनशक्तयः ॥२॥ सर्वार्थानन्तरचरं नियतं चक्षुरादिवत् । त्रिकालविषयं रेतो वर्तमानार्थमिन्द्रियम् ॥ ३ ॥ यदेव चक्षुषो रूपं तदेवान्याश्रयान्तरम् । तस्मादविषयो रूपाद्यभिधानानपाश्रये ॥ ४॥ अस्त्याद्यासंग्रहव्यासनिमित्तास्तदुपक्रमाः। तदात्वोपनिधानाभ्यां रूपाद्यप्युपचर्यते ॥ ५ ॥ नानेकमेकोपचारमेकं नानेति वा न वा । यथा बहिस्तथाध्यात्ममन्योन्यप्रभवं ह्यदः ॥ ६ ॥ निष्पत्तिरुदयाच्छक्तिस्तद्विघातिसमक्षयात् । अनावरणहेतोर्वा शक्तिरभ्युदयात्मिका ॥ ७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org