________________
द्वात्रिंशिका, १८
161
स्वास्थ्यात्पदत्रयावत्ययोनयः स्थानवर्त्मनः । शैक्षदुर्बलगीतार्थगुरूणामर्थसिद्धये ॥ १४ ॥ आसेवनपरीहारपरिसंख्यानशान्तयः । परीषहा वपुर्बुद्धिनिमित्तासमकल्पकाः ॥ १५ ॥ असूयाक्षेपकौत्कुच्यपरिहासमिथःकथाः। स्वैरस्वापासनाहारचर्याः पश्यन्निवारयेत् ॥ १६ ॥ विनीतैर्भावविज्ञाननानारसकथासुखैः । विश्रंसनमनिर्दिष्टमनर्थ साध्यसाधयोः ॥ १७ ॥ उन्क्षेपासंगविक्षेपा शब्दादित्यागभोगयोः। तयोरनियमः श्रेयान् पुरुषाशयशक्तितः ॥१८॥ प्रागेव साधनन्यासः कष्टं कृतमतेरपि । कृच्छोपार्जनभिन्नं हि कार्पण्यं भजते जनः ॥ १९ ॥ पिपासा विषयोत्सेधो मृदूत्तानरयावरम् । न संमिथ्यादिगम्भीरं चपलायति यादसात् ॥ २० ॥ अज्ञातकरणं जन्म वपुःसंवित्प्रकारयोः । त्वत्प्रसादार्जनोपायो विषयेन्द्रियसंवरः ॥ २१ ॥ यद्यज्ञानक्रिये स्यातां स्याद ज्ञानसमयोः शिवः । न हि मानादिवृत्तित्वात्पृथक्संवित्क्रमकथाः ॥ २२ ॥ ममेदमहमस्येति समानं मानलोभयोः । चतुष्टं युगपद्वेति यथा जन्मविशेषतः ॥ २३ ॥ ममेदमिति रक्तस्य न नेत्युपरतस्य च । भाविकौ ग्रहणत्यागौ बहुसाराल्पफल्गुषु ॥ २४ ॥ अभिषिक्तस्य संन्यासक्रमात्पाश्चात्यदर्शनम् । शून्यकविकृताभ्यासो रागिणां तु यथाश्रयम् ॥ २५ ॥ अनाघातास्पदं द्विष्टमनकलैः प्रसादयेत्। निमित्तफलदारुण्यविवेकेभ्यश्च रक्षयेत् ॥ २६ ॥ सुखदुःखरसर्भेद्यं व्यक्तोपनतकारणैः । प्रसादयेदुपाख्यानैः स्वैरासनमुखागतैः ॥ २७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org