________________
160
द्वात्रिंशिका, १८
[१८]
देशकालान्वयाचारवयःप्रकृतिमात्मनाम् । सत्त्वसंवेगविज्ञानविशेषाच्चानुशासनम् ॥ १॥ बाह्याध्यात्मशचिः सौम्यस्तेजस्वी करुणात्मकः । स्वपरान्वर्थविद्वाग्मी जिताध्यात्मश्च शासिता ॥ २॥ तुल्यप्रकोपोपशमा रागाद्या मारुतादिव ।। विषयेन्द्रियसामान्यात् सर्वार्थमिति शासनम् ॥ ३ ॥ होनानां मोहभूयस्त्वाद्वाहुल्याच्च विरोधिनाम् । विशिष्टानुप्रवृत्तेश्च कल्याणाभिजनो मतः ॥ ४ ॥ उत्पन्नोत्पाद्यसंदेहा ग्रन्थार्थोभयशक्तयः । भावनाप्रतिपत्तिभ्यामनेकाः शैक्षभक्तयः ॥ ५ ॥ कर्तप्रयोजनापेक्षस्तदाचारस्त्वनेकधा । चिकित्सितवदेकार्थप्रतिलोमानुलोमतः ॥ ६ ॥ शरीरमनसोस्तुल्या प्रवृत्तिर्गुणदोषयोः । तस्मात्तदुभयोपायानिमित्तज्ञो विशिष्यते ॥ ७ ॥ भेषजोपनयश्चित्रो यथामयविशेषतः। छन्नप्रकाशोपहितः सुविधिज्ञानयन्त्रयोः ॥ ८॥ वपुर्यन्त्रजिता दोषाः पुनरभ्यासहेतवः । प्रसंख्याननिवृत्तास्तु निरन्वयसभाधयः ॥९॥ यथा निर्दिश्य संयोगाद्वाताधारोगभक्तिषु । तथा जन्मसु रागाद्या भावनादरमात्रयोः ॥ १० ॥ यात्रामात्राशनो ऽभीक्ष्णं परिशुद्धनिजाशयः । विविक्तनियताचारः स्मृतिदोषैर्न बाध्यते ॥ ११ ॥ आदेशस्मरणाक्षेपप्रायश्चित्तानपक्रमाः । यथारसं प्रयोक्तव्याः सिद्धयसिद्धिगतागतैः ॥ १२ ॥ परप्रशंसास्वक्षेपो विपरीतमपेक्षितः। उत्कर्षापकौ चैता विनयो ऽन्नयजातयः(?) ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org