________________
द्वात्रिंशिका, १७
159
न ममत्वादहंकारस्तस्मात्तु ममता मता। संकल्पाव्यभिचारित्वात्तस्मिन्नेवाशिवास्पदम् ॥ १९ ॥ नाहमस्मीत्यभावो वा भावो वाभ्युपगम्यते । प्रपञ्चोपरमः शान्तिरव्युच्छित्तेरशून्यता ॥ २० ॥ द्वेषोद्वेगफलं दुःखं संगस्वादुफलं सुखम् । माध्यस्थं तत्प्रतीकारः किं तु दुःखेन यत्सुखम् ॥२१॥ न दुःखकारणं कर्म तदभावाय वोद्यमः । दृश्यते व्यभिचारश्चाप्यहो मोहविभूतयः ॥ २२ ॥ पुण्यं सुखात्मकं जन्म तद्विशेषो विशिष्यते । कृतार्थेनापि चोपेयमवश्यं नार्तिहेतवः ॥ २३ ॥ प्रीत्यर्था विषया जातिः सात्मकं कल्पशोभना । तेषामर्थवशात्साम्यमिति धर्मो ऽप्यधर्मवत् ॥ २४ ॥ पुण्यमेव निबध्नन्ति श्वादयो ऽप्यविशेषतः । आहारादिषु तद्वत्तेरभिज्ञस्तु विशेष्यते ॥ २५ ॥ प्रतिमाभिग्रहास्तीवाः परिज्ञानविरोधिनः । प्रपञ्चाचारवादस्तु मिथ्यामानादिवृत्तयः ॥ २६ ॥ यथागदपरिज्ञानं नालमामयशान्तये । अचारित्रं तथा ज्ञानं न बुद्धयध्यवसायतः ॥ २७ ॥ अरण्युष्माग्निविज्ञानं वैराग्यमुपजायते । तदभ्यासफलो योगो न पापाय न संवरः ॥ २८ ॥ कर्माश्रवविपाकाथ वर्ण्यन्ते जीवजातयः । तुल्यं ह्यधिगतार्थस्य जीवाजीवप्रयोजनम् ॥ २९ ॥ निदानाभ्याससाफल्यं जन्मान्तरगतस्य चेत् । ज्ञानेश्वर्यसुखाभ्यासे निदानेभ्यस्तपः श्रमः ॥ ३० ॥ न धर्मायौं विशिष्यते कापायोपभोगतः।। धर्मस्तु ज्ञानहेतुत्वाद्विशिष्टेषु विशिष्यते ॥ ३१॥ विषयेन्द्रियबुद्धीनां मनश्चोपक्रमः क्रमः । तमोमूलाभिघाताद्धि निर्विकल्पशिवं शिवम् ॥ ३२ ॥
॥ इति सप्तदशी द्वात्रिंशिका ॥ १७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org