________________
158
व्रताभ्युपगमः शुद्धः परिणामो न नेष्यते । तदानन्तर्यवृत्तिस्तु मिथ्यादृष्टिर्निवार्यते ॥ ५ ॥ न मिथ्यादर्शनात्पापं न सम्यग्दर्शनाच्छुभम् । न च नेति कषायाणां तद्वृत्त्यव्यतिरेकतः ॥ ६ ॥ क्षयवृद्धिः कषायाणां मिथ्यादृष्टिरसंक्रमात् । वैषम्यलक्षणो बन्धस्तदाद्यस्तु विकल्पतः ॥ ७ ॥ मिथ्यादृष्टेरभिन्नायाः पञ्च चैकक्षणाश्रवे । कायिकादिक्रियाचारः पापमेवेत्यसंशयम् ॥ ८ ॥
नान्योन्यमनुवर्तेत कृताभ्युपगमेतरौ । तुल्यदोषगुणस्थानौ न कषायक्रमो ऽप्यतः ॥ ९ ॥
कषायचिह्न हिंसादि प्रतिषेधस्तदाश्रयः । अपायोद्वेजनो बालो भीरूणामुपदिश्यते ॥ १० ॥ हिंसादिवत्कषायेभ्यो न जन्ममरणापदः । निमित्तान्तरहेतुत्वाद्गुणतस्तूपचर्यते ॥ ११ ॥ कल्पकल्पमतो द्रव्यमचिन्त्यं सर्पिरादिवत् । दोषप्रचयवैषम्यादातुरस्तु परीक्ष्यते ॥ १२ ॥ एक मूर्तिः परीणामः शुद्धिराचारलक्षणम् । गुणप्रत्येक वृत्तानां पुरुषाशयशक्तितः ॥ १३ ॥ क्रोधजिह्मपरिष्वङ्गमानवेदाम्बुमक्षयाः । युगपात विद्याद्यावद्यत्रानुषिध्यते ॥ १४ ॥ क्षयो नाप्रशमस्यास्ति संयमस्तदुपक्रमः । दोषैरेव तु दोषाणां निवृत्तिर्मारुतादिवत् ॥ १५ ॥ दोषेभ्यः प्रव्रजन्त्यार्या गृहादिभ्यः पृथग्जनाः । परानुग्रहनिम्नास्तु सन्तस्तदनुवृत्तयः ॥ १६ ॥ तुल्यातुल्यफलं कर्म निमित्ताश्रवयोगतः । यतः स हेतुरन्वेष्यो दृष्टार्थो हि न तप्यते ॥ १७ ॥
मनसो ऽपैति विषयान् मनसैवातिवर्तते । किमेवं बहुरत्पं वा शरीरे बहिरेव वा ॥ १८ ॥
Jain Education International
For Personal & Private Use Only
द्वात्रिंशिका, १७
www.jainelibrary.org