SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका, १६-१७ 157 न चोपदेशो बुद्धः स्याद्रविपङ्कजयोगवत् । तत्त्वं च प्रतिबुध्यन्ते तेभ्यः प्रत्यभिजातयः ॥ २५ ॥ समानाभिजनेष्वेव गुरुगौरवमानिनः। स्वभावमधिगच्छन्ति न ह्यग्निः सममिध्यति ॥ २६ ॥ प्रवृत्त्यन्तरिकाव्याजविभङ्गस्वप्नसंभवात् । न जात्यः संस्मृतेरुक्तं संकरो ऽन्तरिकान्तजाः ॥ २७ ॥ सुरादिक्रम एकेषां मानसा ह्यत्क्रमक्रमात् । सुखदुःखविकल्पाच्च खण्डिर्या नो ऽभिजातयः ॥ २८॥ व्योमावकाशो नान्येषां कालो द्रव्यं क्रिया विधिः । सुखदुःखरजो धातुर्जीवाजीवनभांसि च ॥ २९ ॥ अनुमानं मनोवृत्तिरन्वयनिश्चयात्मिका। त्रैकाल्याङ्गादिवृत्तान्ता हेतुरव्यभिचारतः ॥ ३० ॥ संज्ञासामान्यपर्यायशब्दद्रव्यगुणक्रियाः । एतेनोक्ताः पृथक्चेति व्यवहारविनिश्चयः ॥ ३१ ॥ न नाम तत्त्वमेवैतन्मिथ्यात्वापरबुद्धयः । न चार्थप्रतिषेधेन न सिद्धार्थश्च कथ्यते ॥ ३२ ॥ ॥ इति नियतद्वात्रिंशिका षोडशी ॥ १६ ॥ [१७] न दुःखेन विरुध्येते धर्माधमौं सुखेन वा । प्रत्ययाव्यभिचारित्वात्स्वपरोभयवृत्तिषु ॥ १॥ देशकालनिमित्तानि निमित्तान्यनियोगतः । नियोगतो वा तत्सिद्धौ न वाध्यात्मविशेषतः ॥ २ ॥ सुव्रतानि यमं वृत्तं यथाध्यात्मविनिश्चयम् । दीक्षाचारस्तु शैक्षाणां वर्त्मस्थैर्यानुवृत्तये ॥ ३ ॥ अपुण्यप्रतिषेधो वा व्रतं पुण्यागमो ऽपि वा। युगपत्क्रमशो वेति विपक्षोरुभयं भयम् ॥ ४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy