________________
154
द्वात्रिंशिका, १५ निर्वाणं सर्वधर्माणामविकल्पं क्षणे क्षणे । हेतुप्रत्ययभेदात्तु तदन्त इव लक्ष्यते ॥ १६ ॥ संसारे सति निर्वाणं क्षणिकस्य गतिः कुतः । जन्मवत्तेन चित्तस्य निर्वाणमपि संस्कृतम् ॥ १७ ॥ यत्संस्कृतमनित्यं तद्भङ्गादन्योन्यसंस्कृतम् । निर्वाणमनसामस्माद्भक्तिर्विप्रतिषेधनात् ॥ १८॥ धर्मवद्विषये ऽन्यो ऽपि यदा विज्ञानसंभवः । सत्कारेभ्यस्तदा जन्म किं तस्य कुरुते क्षमा ॥ १९ ॥ न पूर्वा न परा कोटी विद्यते वाक्फलं मतेः । पूर्वविप्रतिषेधस्तु हेतुप्रत्ययसंभवात् ॥ २० ॥ अहेतुप्रत्ययनयं पूर्वापरसमाभवम् । विज्ञानं तत्समुत्थं कः संव्यवस्येद्विचक्षणः ॥ २१ ॥ दर्पणस्थमिव प्रज्ञामुखबिम्बमतन्मयम् । तत्समुत्थं च मन्यन्ते तद्वत्प्रत्ययजन्मनः ॥ २२ ॥ न सामग्रीस्वभावो ऽयमतो नाज्ञानभेदतः । स्वप्नोपलब्धस्मरणं निवृत्तिश्च न नेत्यपि ॥ २३ ॥ न चानिष्टप्रयोगो नः कुशलप्रतिपत्तिवत् । मन्यमानो हि दोषं वा गुणं वा परिकल्पयेत् ॥ २४॥ पटहध्वनिवल्लोकः कल्पनामनुवर्तते । यतः स्वभावो भावो वा तस्य वक्तुं न युज्यते ॥ २५ ॥ न चोपदेशवैफल्यं रूपं विज्ञानजन्मवत् । दुःखमुत्पद्यते तस्य स्वार्थहानमयुक्तिवत् ॥ २६ ॥ न चास्यागन्तुसंक्लेशः शुद्धिर्वा भक्तयस्त्विमाः । स्मृतिसंगसमः किंतु तेजस्यरणिवृत्तिवत् ॥ २७ ॥ चित्तचारवशात्संगः स्मृतिवन्न विरुद्धयते । संस्कारायतनापेक्षं निरोधापत्त्यनन्तरम् ॥ २८॥ अङ्करव्यक्तिनिष्पत्तिश्चेतः सत्त्वस्य तत्कथम् । अविद्यातृष्णयोर्यद्वन्न नामत्वं न चैकता ॥ २९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org