________________
द्वात्रिंशिका, १५-१६
155
समविज्ञानयोस्तद्वद्वेद्येकान्तमतः शिवम् । स्रोतःप्राप्त्यादिरस्यास्तु विकल्पो ऽरणिवह्निवत् ॥ ३० ॥ एकचित्ते ऽपि वा कृत्स्नदुःखज्ञानोपपत्तितः। ग्राममोहक्षमोदर्कः शासनप्रणयो मुनेः ॥ ३१॥ ॥ इति बौद्धसंताना नाम पञ्चदशी द्वात्रिंशिका ॥ १५ ॥
[१६] नित्यानन्तरमव्यक्तिसुखदुःखाभिजातयः । स्वभावः सर्वसत्त्वानां पयः क्षीराङ्करादिवत् ॥ १॥ धर्माधर्मात्मकत्वे तु शरीरेन्द्रियसंविदाम् । कथं पुरुषकारः स्यादिदमेवेति नेति वा ॥२॥ शरीरेन्द्रियनिष्पत्तौ यो नाम स्वयमप्रभुः । तस्य कः कर्तृवादो ऽस्तु तदायत्तासु वृत्तिषु ॥३॥ धर्माधमौं तदान्योन्यनिरोधातिशयक्रियौ । देशाद्यपेक्षौ च तयोः कथं कः कर्तृसंभवः ॥ ४॥ यत्प्रवृत्त्योपमर्दैन वृत्तं सदसदात्मकम् । तद्वैतरनिमित्तं वेत्युभयं पक्षघातकम् ॥ ५॥ न दृष्टान्ताकृताशक्तेः स्वातन्त्र्यं प्रतिषिध्यते । अनिमित्तं निमित्तानि निमित्तानीत्यवारितम् ॥ ६ ॥ विश्वप्रायं पृथिव्यादि परिणामो प्रयत्नतः । विषयस्तत्प्रबोधस्ते तुल्ये यस्येति मन्यते ॥ ७॥ नोक्ताभ्यां सह नारम्भात् सममध्यक्षसंपदि । विनाशानुपपत्तेश्च भोज्यभक्ष्यविकल्पतः॥८॥ पृथिव्या नावरुध्येत यथा वा राजतक्रियाः। गुणानां पुरुषे तद्वदहं कर्तेत्यदःकृते ॥ ९॥ सुदूरमपि ते गत्वा हेतुवादो निवर्त्यति । न हि स्वभावानध्यक्षो लोकधर्मो ऽस्ति कश्चन ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org