________________
द्वात्रिंशिका, १५
153
अन्योन्यविषमान् पश्यन् पुद्गलस्कन्धशून्यता। न जानाति शमैकार्था बुद्धानां धर्मदेशनाः ॥ २॥ संख्यादिभेदादन्यत्वमवाच्यो ऽन्योन्यसंकरः । स्कन्धपुद्गलयोर्यस्मात् स्कन्धमात्रागतः पुमान् ॥ ३॥ सेनावनवदेकान्तबुद्धेः प्रज्ञप्तिसौष्ठवात् । कोलवत् क्रियते मिथ्या मानकीला प्रवृत्तये ॥ ४ ॥ ममत्वाभिगमात्सत्त्वस्तच्च्युतो भ्रष्टराजवत् । भारहारादियोगास्तु व्याससंग्रहणाङ्गवत् ॥ ५ ॥ अवक्तव्यमसद्भावात्प्रश्नार्थस्य खपुष्पवत् । संतानं भावनार्थ वा सरित्प्रोतप्रदीपवत् ॥ ६ ॥ महाभूतोच्छ्यो रूपं विज्ञानं विषयो नयः । देवनाट्यपृथग्भावो नृजात्यादिविकल्पवत् ॥ ७ ॥ विपर्यासात्मकं मोहसंगात्तृष्णा स्मृतेर्मनः । संकल्पश्चेतनाकर्म चेतयित्वोपचारतः ॥ ८॥ चक्षुरूपादिसंस्कारसमुत्थं सर्वजातिषु । विज्ञानमिव ज्ञातीनां नानात्वमिति जातितः ॥ ९॥ चित्तवद्रूपकार्यस्य वैलक्षण्यं क्षणे क्षणे । तद्धयजात्यन्तरं तुल्यं न बाध्यत्युपपत्तितः ॥ १० ॥ सत्त्वोपचारौ व्युच्छिन्नौ स्कन्धानां पञ्चकल्पवत् । शून्यता वा प्रतिष्ठत्वादेतदेव प्रपञ्चितम् ॥ ११॥ स्कन्धप्रकारं पश्यन्तो जगत्पुष्पोपकारवत् । किमस्तीत्युपगच्छेयुः किमेव तु ममेति वा ॥ १२ ॥ बाह्यमायतनं नात्मा यथा नेत्रादयस्तथा। तद्विकल्पगतिश्चित्तमनः कस्यात्र किं यथा ॥ १३ ॥ हेतप्रत्ययवैचित्र्यात्तानेवमिति भक्तयः । कथं हि संप्रधा]त भावो भावविशेषतः ॥ १४ ॥ संमोहात्स्मरणात्तत्त्वकलाभावान्न कर्मणः । क्षणिकत्वादिशुद्धेश्च निर्वाणाच्च प्रदीपवत् ॥ १५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org