________________
152
द्वात्रिंशिका, १४-१५
संप्रबुद्धेषु विज्ञानमभिसंधिविशेषतः।। सतत्त्वव्यञ्जनं तेषां प्रदीपद्रव्ययोगवत् ॥ २२ ॥ अव्यूहादङ्करैः सौम्यान्नकदीपप्रकाशवत् । एतेनाक्षमनोबुद्धयायसंकरविनिर्णयः ॥ २३ ॥ अक्षप्रदोषाध्यारोपविद्यासुखप्रमाणतः । इच्छा द्वेषवतो यस्माद्धर्माधर्मविक्लृप्तयः ॥ २४ ॥ शुद्धाभिसंधिर्यः कश्चित् कायवाङ्मनसो विधिः। सर्वो ऽदृष्टविशेषाय यस्य यत्र यदा यथा ॥ २५ ॥ द्रव्यादीन्यक्षतार्थस्य प्रसादोभयसाधनम् । तत्सामान्यफलान्यैक्यादृते त्वक्षादिकल्पना ॥ २६ ॥ यथा पदार्थविज्ञानं विद्यादृष्टिविशेषतः । तत्स्थैर्यमेव वैराग्यं ग्रन्थार्थप्रतिपत्तिवत् ॥ २७ ॥ एवमात्मादिसंयोगेनाभिसंधौ विपश्चितः । नवं न चीयते बीजं पुराणं चापचीयते ॥ २८॥ प्राणायामादिसामर्थ्यादैश्वर्याच्चोपभोगतः । प्राणोत्थितौ मनो ऽतन्त्रं न पुनः संप्रयुज्यते ॥ २९ ॥ इहेदमिति संबन्धः समवायो ऽस्ति भाववत् । संज्ञालक्षणतत्त्वार्थो नानैव तु जगद्विधेः ॥ ३० ॥ नातिप्रसङ्गो घटवत्संशयानुपपत्तितः। तमभेदेन संस्थानादेकतश्चेतराविधिः ॥ ३१॥ संशयप्रश्नसामान्यविशेषप्रविभागतः । स्वपरप्रत्यवस्थानवैशेषिकपथान्वयः ॥ ३२ ॥
॥ इति वैशेषिकद्वात्रिंशिका चतुर्दशी ॥ १४ ।।
[१५] नाहंकृतस्य निर्वाणं न सेत्स्यत्यनहंकृतः । न वा विद्या विवेकाय न विद्या भवगामिनी ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org