________________
द्वात्रिंशिका, १४
___151
वाय्वन्तानां न रूपादि जन्मधर्मविशेषतः । शब्दो नित्यस्तु साधात् सर्वार्थत्वाच्च नार्थवत् ॥ ८॥ रूपादीनां स्वजातीयाः सामर्थ्याद्वसुधादयः । पृथक्शरीरजनका हेतुभेदात्त्वयोनिजम् ॥ ९॥ त्वचक्षुर्ग्रहणं द्रव्यं रूपाद्याश्चक्षुरादिभिः । संख्यादिभावकर्माणि यथापाश्रययोगतः ॥ १० ॥ सेतरैर्यगपत क्षिप्तं परत्वैः कालसंभवम् । इदमस्मादिति दिशो नानाकार्यविशेषतः ॥ ११ ॥ आत्मेन्द्रियादिसंयोगे बुद्धयभावाच्च मानवः। बुद्धयादेरात्मनः खादि शब्दादिविभवान्महत् ॥ १२ ॥ प्रपञ्चादपि दीर्घ वा हस्वं वा परिमण्डलम् । रूपस्पर्शवदेकत्वं पृथक्त्वे वृत्तिजन्मनः ॥ १३ ॥ क्रियावतोर्वा तुल्यं च संवियोगाविवक्षितौ । कारणं ध्वनिराभ्यां च संतानात्सलिलोर्मिवत् ॥ १४ ॥ देशकालविशेषाभ्यां परं च गुणकर्मणाम् । ऐक्यादाश्रयतद्वत्ता भावे तबुद्धिधर्मतः ॥ १५ ॥ द्रव्यगौरवसंयोगयत्नसंस्कारजाः क्रियाः। अदृष्टाच्चेति तत्संज्ञाविकल्पौ व्यवहारतः ॥ १६ ॥ संबन्धाद्बुद्धयपेक्षश्च कार्याश्चाज्ञस्य बुद्धयः । संज्ञास्तु भावद्रव्यादिनिमित्ताः समयात्मिकाः ॥ १७ ॥ निरुक्तार्थोपचाराभ्यामेता जातिविभक्तिषु । हिनोति हीयते वेति हेतुं गृह्णन्त्यमी ग्रहाः ॥ १८ ॥ अन्यो ऽन्यथा स द्रव्यादिसत्ताभावात्सदान्तरम् । अनारम्भाविनाशाच्च तेषु स्मृतिविरोधिनः ॥ १९ ॥ अभूदभूताद्भवतीत्यपेक्षा चापि कारणात् । भविष्यतीति दृष्टत्वात् कार्यान्तरनियोगतः ॥ २० ॥ आत्ममानससंयोगविशेषादेव खादिषु । सामान्यात्संशयस्वप्नस्मृतीश्चादृष्टसंस्कृतः ॥ २१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org