SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 150 किमत्र शुद्ध लिष्टं वा किं वा कस्य प्रयोजनम् । कृतार्थानां गुणेष्वेव गुणानामिति जायते ॥ २८ ॥ भयं संबोधनं लिङ्गं किशोरप्राजनो यमः । न हि विज्ञानचैतन्यनानात्वं प्राक् समिध्यते ॥ २९ ॥ यस्तु केवलवाचादौ यायाद् दृष्टार्थविक्रमैः । विकृष्टेषुरिव क्षिप्तस्तमो ऽम्भसि स नश्यति ॥ ३० ॥ अहो दुर्गा गुणमतिर्दुर्गं मोक्षाय नाम यत् । कथंचिदेव मुञ्चन्ति स्वपन्मन्दाभिसातिकाः ॥ ३१॥ चक्षुर्वत्पुरुषो भोक्ता बन्धमोक्षविलक्षणः । कृतार्थैः संप्रयुक्तो ऽपि शून्य एव गुणैरिति ॥ ३२ ॥ ॥ इति सांख्यप्रबोधद्वात्रिंशिका त्रयोदशी ॥ १३ ॥ [१४] धर्माधर्मेश्वरा लोकसिद्धयपायप्रवृत्तिषु । द्रव्यादिसाधनावेतौ द्रव्याद्या वा परस्परम् ॥ १ ॥ द्रव्यमाधारसामर्थ्यात् स्वातन्त्र्यसंभवाद्गुणः । आनन्तर्याद्गुणेष्वेककर्मेत्यारम्भनिश्चयः ॥ २ ॥ द्वात्रिंशिका, १३-१४ संस्कारेण तदापेक्ष्य मेकद्रव्यक्षणस्थितिः । कर्म कार्यविरोधि स्यादुभयोभयथा गुणः ॥ ३ ॥ अन्यतो ऽन्येषु सापेक्ष्यस्तुल्यप्रत्ययदर्शनात् । द्रव्यादिभावः सत्तादिर्मध्यत्वावृत्तिलक्षणम् ॥ ४ ॥ प्रत्यक्षविषया ख्यातिस्तत्संबन्धि विरोधि वा । अस्त्येवमिति तुल्यत्वेत्यनुमानं त्रिधा विधा ॥ ५॥ संयोगजत्वात्कार्थस्य कारणं परमाणवः । दृष्टवन्नैकजातीयास्तेषां सन्त्येव पाकजाः ॥ ६ ॥ पृथिव्यादीनि खान्तानि वैशेषिकगुणार्पणात् । प्राणादियानायानेन तच्छेषगुणसंभवः ॥ ७ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy