SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका, १३ 149 श्रोत्रादीनां मनोवृत्तिः प्रतिपत्तिस्वयोगतः । शान्तादिविविधोदकः प्रत्ययार्थः प्रवर्तते ॥ १४ ॥ सिद्धिरीहितनिष्पत्तिस्तुष्टिस्तद्देशवृत्तिता। अशक्तिः साधनाद्यानि वितथेष्टिविपर्ययः ॥ १५ ॥ पुरुषार्थप्रवृत्तीनां निवृत्तीनां स्वभावतः । आविस्तिरोभावगती को गुणानां प्रमास्यति ॥ १६ ॥ अनादिप्रचितं कर्म प्रलयान्त्यवपुर्मुखम् । प्रवृत्तौ तद्विधापायां छिन्नवृक्षप्रमोदवत् ॥ १७ ॥ अनभिव्यक्तविद्यस्य विदुषस्तद्भवाञ्चितम् ।। यथाविधोदयापायि प्रचितावपि संक्रमः ॥ १८ ॥ ब्रह्माद्यष्टविधं देवं सत्त्ववृत्तिविशेषतः । मानुष्यं च रजः शेषं स्वं वार्ततमसो जगत् ॥ १९ ॥ अविद्येकात्मको बन्धो गुणव्यापारलक्षणः । दक्षिणादिविकल्पस्तु बालिशप्रसभाङ्कशः ॥ २० ॥ न ग्रहाः प्रतिबन्धाय नैकाग्यं वा प्रवृत्तये । तिर्यक्ष्वपि च सिध्यन्ति व्यक्ता नानात्वबुद्धयः ॥ २१ ॥ वैराग्यात्कारणग्रामतनिरोधपरिश्रमः। न ह्यतोनिमीलन्ति पुरुषार्थोत्थिता गुणाः ॥ २२ ॥ ज्ञानप्रसादौ वैराग्यमित्यविद्यातमोजितम् । को हि रागो विरागो वा कुशलस्य प्रवृत्तिषु ॥ २३ ॥ यावद्रजस्तमोवत्तिमहमित्यवमन्यते । परिष्वजति सत्त्वं च तावत्तेष्वेव गण्यते ॥ २४ ॥ क्षुन्निद्राद्यनयो वृत्तमात्मभूतं विपश्चितः । न सम्यग्दर्शनोपायि तथान्यदपि को ऽत्ययः ॥ २५ ॥ सदाचारप्रवृत्तस्य क्रूरक्लिष्टक्रियस्य वा। सकृच्चाभ्युदिता ख्यातिनं च किंचिद्विशिष्यते ॥ २६ ॥ शेषवृत्ताशयवशात्साम्यप्रकृतिभेदवत् । समानप्रतिबोधानामसमानाः प्रवृत्तयः ॥ २७ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy