SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 148 [१३] सन्नित्यकर्तृनानात्वप्रतिपक्षोभयात्मकम् । गुणधर्ममृषिर्नानापश्यनेवात्मनो भवम् ॥ १ ॥ स्वपरानुग्रहद्वारमतिरासुरये स्वयम् । तमुमावसुदेवाय तन्त्रार्थव्या ससूरये ॥ २ ॥ सत्त्वादिसाम्यं प्रकृतिवैषम्यं महदादयः । परस्परात्मकेनोपद्रवकार्कश्यवृत्तिवत् ॥ ३ ॥ लाघवख्यातिसौख्यानि सत्त्वं दुःखक्रिये रजः । तमो ऽन्यद्वहिरन्तश्च तद्विकल्पो ऽनिलादिवत् ॥ ४ ॥ श्रोत्रादिवृत्तिः प्रत्यक्षमनुमानमनुस्मृतिः । कृत्स्नार्थसिद्धेर्नातो ऽन्यच्छान्दमात्मविशेषतः ॥ ५ ॥ आदिशब्दात्प्रवृत्तीनामर्थवत्त्वादनुग्रहात् । परिणामविशेषाच्च गुणचैतन्यवृत्तयः ॥ ६ ॥ गुणौदासीन्यमन्योन्यं चैतन्यादधिकारतः । अभोक्तृत्वाच्च कर्तृत्वमङ्गाङ्गिपरिणामतः ॥ ७ ॥ ऐक्यादकर्ता पुरुषः कर्ताधिष्ठानशक्तितः 1 स्वातन्त्र्यादुपलब्धेश्च कार्यस्तु गुणभोजनात् ॥ ८॥ वैषम्यमात्रात्महतः कारण ग्रामसंभवः । शब्दादयश्च व्योमादिविशेषा॒स्तद्गुणात्मकाः ॥ ९ ॥ Jain Education International शब्दाद्या लोकसामर्थ्यं श्रोत्रादीन्द्रियपञ्चकम् । एतेनोक्ता विशेषाणां शब्दादिगुणभक्तयः ॥ १० ॥ वाक्यादानं गतानन्दत्यागान्यदुभयं विदुः । चैतन्यवद्देहवृत्तिर्मनः संवित्सुखादयः ॥ ११ ॥ प्राणादाकरुणग्रामवृत्तिर्जीवनसंज्ञिका । तदभिव्यक्तिरन्यत्र बुद्धयाशयवशाद्भवः ॥ १२ ॥ शरीरे धृतिसंश्लेषपङ्क्तिव्यूहावकाशतः । पृथिव्यादिसमारम्भः परिणामस्तु पूर्वयोः ॥ १३ ॥ For Personal & Private Use Only द्वात्रिंशिका, १ www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy