________________
147
द्वात्रिंशिका, १२
दृष्टान्तदूषणा मोहो हानिपक्षाप्रसिद्धयः । वाचोयुक्त्युपपत्तिभ्यामत एव विपर्ययः ॥ २० ॥ अनभ्युपगमो लोकशास्त्रधर्मविकल्पितः । सामान्याभ्युपपत्तिभ्यां न समो ऽनिष्टकल्पनात् ॥ २१ ॥ अन्योन्योभयसामान्यसर्वसंगविशेषतः। सामान्यघाततः सिद्धशास्त्रं लोकोपपत्तितः ॥ २२ ॥ अन्यथेति च वैधर्म्यमापत्तिव्यभिचारतः। प्रतिपत्तिविकल्पाच्च तत्सिद्धिः कृतसंभवात् ॥ २३ ॥ पुनरुक्तमसंबद्धात् साम्यः सामर्थ्यदर्शनात् । मन्त्रवच्चेति नापाऱ्या प्रसंगानिष्ट सिद्धयः ॥ २४ ॥ पुनरुक्तवदायोज्यं हेतुवादान्तरोक्तये । समानीसंगसंकल्पं प्रश्नाकारणसिद्धयः ॥ २५ ॥ तदभावात्प्रतिज्ञादि प्रत्येकं चानुपक्रमात् । कालप्राप्तिविकल्पाभ्यां सर्वसिद्धेश्च नार्थवत् ॥ २६ ॥ क्वचित्किचित्कथंचिच्चेत्यनुषंगात्स लोपगः । कृताकृतविकल्पाभ्यां संशयप्रतिरूपतः ॥ २७ ॥ ननाम दृढमेवेति दुर्बलं चोपपत्तितः । वक्तृशक्तिविशेषात्तु तत्तद्भवति वा न वा ॥ २८ ॥ तुल्यसामाधुपायासु[ येषु] शक्त्या युक्तो विशेष्यते । विजिगीषुर्यथा वाग्मी तथा भूयं श्रुतादपि ॥ २९ ॥ सर्वपक्षकणैस्तुल्यं वादिनः सत्यतां विना। समानाभ्युपपत्ति च जिह्मरौक्षायुधा ह्यमी ॥ ३० ॥ प्राश्निकेश्वरसौमुख्यं धारणाक्षेपकौशलम् । सहिष्णुता परं धाष्र्यमिति वादच्छलानि षट् ॥ ३१॥ कि परीक्ष्यं कृतार्थस्य किमेवेति च चक्षुषः । परानुग्रहसाधोस्तु कौशलं वक्तृकौशलम् ॥ ३२॥
॥ इति न्यायद्वात्रिंशिका द्वादशी ॥ १२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org