________________
146
न सामान्यविशेषाभ्यामृते ऽन्याहेतु जायते । तद्विशेषविद्याताभ्यां हेत्वाभासोपजातयः ॥ ६॥ द्वितीयपक्षप्रतिघाः सर्व एव कथापथाः । अभिधानार्थविभ्रान्तैरन्योन्यं विप्रलप्यते ॥ ७ ॥
समं संशय्यते यत्र सामान्यमलिनं धिया । विचारं पुनरुक्तार्थं विशेषाय स संशयः ॥ ८ ॥ प्रतिज्ञा निर्णय हेतुर्दृष्टान्तं बुद्धिकारणम् । प्रमाण हेतु दृष्टान्तजातितर्कास्तदुक्तयः ॥ ९ ॥ लोकधर्मो ऽभ्यनुज्ञातः सिद्धान्तो वाग्नियामकः । अङ्गधर्मविकल्पाभ्यां प्रमेयोपचयाचयौ ॥ १० ॥ अविद्यार्थावगमो विरूपाप्रतिपत्तितः । हेत्वाभासश्च निर्वादेष्वियमेव तु भूयसी ॥ ११ ॥ किंचित्सामान्यवैशेष्यादयुक्तार्थोपपादनम् । छलं तदिति वैस्पष्ट्याद्वाच्याभिप्रायभेदतः ॥ १२ ॥ व्यभिचारात् परं नास्ति परपक्षप्रदूषणम् । हेतुपर्यन्तयोगाच्च तस्मात्पक्षोत्तरो भवेत् ॥ १३ ॥
संशयप्रतिदृष्टान्तविरोधापत्तिहानयः ।
प्रतिपक्षविकल्पौ च व्यभिचारार्थपर्ययाः ॥ १४॥
अकारणत्वान्निर्देशः साध्यत्वात्त्वनुयोगजाः । हेत्वन्तराभ्युपगमः पुनरुक्तान्यतः परम् ॥ १५ ॥ एकपक्षहता बुद्धिर्जल्पवाग्यन्त्रपीडिता ।
श्रुतसंभावनावैरी वैरस्यं प्रतिपद्यते ॥ १६ ॥
तानुपेत्य वितण्डास्ति नयस्येति विचारणा । सैव जल्पे विपर्यासो वितण्डैवेति लक्ष्यते ॥ १७ ॥ न सिद्धान्ताभ्युपगमादितरः सर्वतन्त्रिकः । यस्येत्युक्तमनेकान्तादितरं नानुषज्यते ॥ १८ ॥ विनिर्णयान्न संदेहः सर्वथोत्तरसंभवात् । स एव हेतुश्चक्षुर्वन्नानिष्टप्रतिपत्तितः ॥ १९ ॥
Jain Education International
For Personal & Private Use Only
द्वात्रिंशिका, १२
www.jainelibrary.org