SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 144 अतः प्रणयसंसृतामविगणय्य लक्ष्मीमसौ करोति तव सायकः क्षतमुरः सिषित्सुर्नृप ॥ १८ ॥ अन्योन्यावेक्षया स्त्री भवति गुणवती प्रायशो विष्णुता वा लोकप्रत्यक्षमेतत्क्षितिविषमतया चञ्चला श्रीर्यथासीत् । सैवान्यप्रीतिदानात्तव भुजवलयान्तःपुरप्राप्तमानामुर्वी दृष्ट्वा दयावत्स लघुसुचरिताहारसंख्यं करोति ॥ १९ ॥ प्रसूतानां वृद्धिः परिणमति निःसंशयकला पुरावादश्चैष स्थितिरियमजेयेति नियमः । जगद्वृत्तान्ते ऽस्मिन् विवदति तवेयं नरपते कथं वृद्धा च श्रीर्न च परुषितो यौवनगुणः २० ॥ अन्तर्गढसहस्रलोचनधरं भ्रूभेदवज्रायुधं कस्त्वा मानुषविग्रहं हरिरिति ज्ञातुं समर्थो नरः । यद्येते मघवन् जगद्धितरतास्त्वा वल्लभाः स्वामिनस्त्वद्भू देशपटुप्रकीर्णसलिला न ख्यापयेयुर्घनाः ॥ २१ ॥ महीपालो ऽसीति स्तुतिवचनमेतन्न गुणजं महीपालः खिन्नामवनिमुरसा धारयति यः । यदा तावद् गर्भे त्वमथ सकलश्रीर्व सुमति कियायुष्मांस्ते नव शिवमिमां पश्यति महीम् ॥ २२ ॥ शतेष्वेकः शूरो यदि भवति कश्चिन्नयपटुस्तथा दीर्घापेक्षी रिपुविजयनिःसाध्वसपरः । तदेतत्संपूर्ण द्वितयमपि येनाद्यपुरुषे श्रुतं वा दृष्टं वा स वदतु यदि त्वा न वदति ॥ २३ ॥ अयनविषमा भानोर्दोतिदिनक्षय पेलवा परिभवसुखं मत्तैर्मत्तैर्घनैश्च विलुप्यते । सततसकला निर्व्यासंगं समाश्रितशीतला तव नरपते दीप्तिः साम्यं तया कथमेष्यति ॥ २४ ॥ को नामैष करोति नाशयति वा भाग्येष्वधीनं जगत् स्वातन्त्र्ये कथमीश्वरस्य न वशः स्रष्टुं विशिष्टाः प्रजाः । Jain Education International द्वात्रिंशिका, ११ For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy