________________
141
द्वात्रिंशिका, १०-११
नेहारम्भणचारो ऽस्ति केवलोदीरणव्यये । अनन्त श्वर्यसामर्थ्यात् स्वयं योगी प्रपद्यते ॥ २८ ॥ तत्क्षीयमाणं क्षीणं तु चरमाभ्युदयक्षणे । कैवल्यकारणं पङ्ककललाम्बुप्रसादवत् ॥ २९ ॥ चक्षुर्वद्विषयाख्यातिरवधिज्ञानकेवले । शेषवृत्तिविशेषात्तु ते मते ज्ञानदर्शने ॥ ३० ॥ जगत्स्थितिवशादायुस्तुल्यवेद्यादपि त्रयम् । करोत्यात्मसमुद्घाताद्योगशान्तिरतः परम् ॥ ३१॥ सर्वप्रपञ्चोपरतः शिवो ऽनन्त्यपरायणः । सद्भावमात्रप्रज्ञप्तिनिरुपाख्यो ऽथ निर्वृतः ॥ ३२ ॥ प्रदीपध्यानवयानं चेतनावद्विचेष्टितम् । ते विकल्पवशाद्भिन्ने भवनिर्वाणवर्त्मनि ॥ ३३ ॥ जिनोपदेशदिङ्मात्रमितीदमुपदर्शितम् । यदवेत्य स्मृतिमतां विस्तरार्थो भविष्यति ॥ ३४ ॥
॥ इति दशमी द्वात्रिंशिका ॥ १० ॥
[११]
समानपुरुषस्य तावदपवादयन् कीदृशः किमेव तु महात्मनामपरतन्त्रधीचक्षुषाम् । अपास्य विनयस्मृती भुवि यशः स्वयं कुर्वता त्वयातिगुणवत्सलेन गुरवः परं व्यंसिताः ॥ १॥ श्रीराश्रितेषु विनयाभ्युदयः सुतेषु बुद्धिर्नयेषु रिपुवासगृहेषु तेजः । वक्तुं यथायमुदितप्रतिभो जनस्ते कीर्ति तथा वदतु तावदिहेति कश्चित् ॥ २॥ एकां दिशं व्रजति यद्गतिमद्गतं च तत्रस्थमेव च विभाति दिगन्तरेषु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org